________________
३२२
परशुरामकल्पसूत्रम् चतुर्थमाह-ब्लू मिति । अयमपि यथाश्रुतः पठितव्यः । पञ्चममाह--सा मि ति । अयमपि यथाश्रुतः । षष्ठमाह-दु मुलु इ ति । षष्ठयां मा या इति ह्रींवर्णग्रहणम् । शेषं यथाश्रुतम् । ललितामनुसमाप्तिं द्योतयति-ए त इति । एते उक्ताः ॥ ५१ ॥
श्यामाविघ्नहरमन्त्रमाह ----
हसन्ति हसितालापे पदं मातमुक्ता गीपरिचारिके मम भयविघ्ननाशं कुरुद्वितयं सविसर्गठत्रितयमिति श्यामाविघ्नदेवी ॥ ५२ ॥
ह स न्ती त्यारभ्य नाश मितिपर्यन्तम् पदं उक्त्वे त्यंशं अपहाय शेषं समानम् । नाशं इत्येतदुत्तरं कुरुद्वयम् । ततः सविसर्गठत्रितयं पठेत् । इयं हसन्ती विद्या श्यामाजपाङ्गम् ॥ ५२ ॥
अथ वाराहीविघ्नहरविद्यामाह-----
स्तं स्तम्भिन्यै नम इति कोलमुखीविघ्नदेवी ॥ ५३॥ यथाश्रुतं स्पष्टम् ॥ ५३ ।। एतेषां तत्तज्जपाव्यवहितप्राक्कालेन संबन्धं दर्शयति---
एते तत्तजपारंभे जप्तव्याः ॥ ५४ ॥ सङ्ख्याया अनुक्तत्वात् जपात पूर्व सकृत्पाठः ॥ ५४ ॥
ललिताऽऽदिजपकाला: अथ ललिताऽऽदिपराऽन्तानां जपकालमाह
ललिता प्रारू । अपराह्ने श्यामा । वार्ताळी रात्रौ । ब्राह्मे मुह परा ॥ ५५ ॥
एतदव्यवहितसूत्रे जप्तव्या इत्यनेन जपारंभ इत्यनेन च जपप्रकरणे सिद्धे. अयं कालविधिः जपम्यैवेति सिद्धम् । प्राणः सूर्यपरावृत्तिप्राक्कालः । अपराह्मः
बात