________________
३२१
दशमः खण्ड:--सर्वसाधारणक्रमः
रश्मिमालाध्यातृप्रशंसा एवं रश्मिमालामन्त्रकलापमुक्त्वा यथोक्तस्थानेषु उक्तरश्मिमालाध्यानकर्तारं प्रशंसति--
एवं रश्मिमाला संपूर्णा । सर्वगात्रः शुद्धविद्यामयतनुः स एव परमशिवः ॥ ५० ॥ स्पष्टोऽर्थः ॥ ५० ॥
जपविघ्ननिवारकमन्त्राः अथ जपपूर्वाङ्गभूतान् जपविघ्ननिवारकान् मन्त्रानाह___ अथ विघ्नदेवताः । इरिमिलिकिरिकिलिपदात् परिमिरोमित्येकः । प्रणवो माया नमो भगवति महात्रिपुराझैवर्णाद्रविपदमनु मम त्रैपुररक्षां कुरु कुरु इति द्वितीयः। संहर संहर विघ्नरक्षोविभीषकान् कालय हुं फट् स्वाहा इति तृतीयः । ब्लू रक्ताभ्यो योगिनीभ्यो नमः इति चतुर्थः । सां सारसाय बह्वाशनाय नमः इति पञ्चमः । दुमुलुषुमुलुषु मायाचामुण्डायै नमः इति षष्ठः । एते मनवो ललिताजपविघ्नदेवताः ॥ ५१ ॥ .
अथेति प्रकरणान्तरज्ञापकम् । विघ्नहयों देवताः विघ्न दे व ताः । मध्यमपदलोपी समासः । अत्र देवतापदेन तत्तद्देवतावाचकमन्त्रा लक्षणीयाः । तेन देवताकथनं प्रतिज्ञाय अग्रे मन्त्रकथनं न सन्दर्भविरुद्धम् । वक्ष्ये इति शेषः । तत्र श्रीविद्याऽङ्गभूताः षण्मन्त्राः, तेप्वाद्यं मन्त्रमाह----इ रि मि ली ति । अत्र पदादित्यंशमपहाय शेषं यथाश्रुतं पठितव्यम् । द्वितीयमाह---प्रण व इति । प्रण व मा यो त्तरं त्रिपुर पर्यन्तं पठित्वा । ततः भै इति । ततः र वि इति । म म त्रै पुरे ति कुर्वन्तो यथाश्रतः पठितव्यः । तृतीयमाह-संह रे ति । अयं यथाश्रुतः पठितव्यः ।