________________
परशुरामकल्पसूत्रम्
पूर्वं मादनशक्तीत्यादिना दर्शिता या श्रीविद्या तस्यां यः पञ्चमः एकादशश्चवर्णौ, माया बीजम्, तावपहाय श्री विद्यैवोर्वरिता श्री पूर्ति विद्या । ब्रह्म कोटरे ब्रह्मरन्ध्रे यष्टव्या ध्येयेति यावत् ॥ ४७ ॥
३२०
महापादुका
श्रीब्रह्मरन्ध्रे ध्येय महापादुकामुद्धरति
श्यामापादुकाप्रथमत्रिकस्थाने तारत्रयं कुमारी ग्लौं इति योज्यम् । ततः परस्ताच्छेषं समानम् ॥४८॥
वाकू
स्पष्टम् ॥ ४८ ॥
इमां लोकप्रवृत्त सर्वोत्तमत्वज्ञानाय स्तौति
इयं महापादुका सर्वमत्रसमष्टिरूपिणी स्वैक्यविमर्शिनी महासिद्धिप्रदायिनी द्वादशान्ते यष्टव्या ॥
सर्व मन्त्र समष्टिरूपिणी सर्वमन्त्रैः प्रत्येकं यद्यत् साध्यं फलं तत् सर्वं अनेनैव साधितुं शक्यं इति भावः । एवं इह लोके क्षुल्लकफलसाधनत्वमुक्त्वा साध्याणिमादिसाधनत्वमप्यस्तीत्याह म हा सिद्धिप्रदायिनी ति । महासिद्धयः अणिमाssदयः । एवं कृत्रिमपुरुषार्थसाधनत्वमुक्त्वा परमपुरुषार्थसाधनत्वमप्याह – स्वैक्येति । स्वैक्य विमर्शः ब्रह्मात्मैक्यज्ञानं, जनकतासंबन्धेन तद्वती, ब्रह्मात्मैक्यविमर्शाभासनरूपा, अविद्यालयकर्त्रीति यावत् । अत्र सूत्रे यद्यपि महासिद्धिप्रदायिनीत्यस्मात् पूर्वपठितस्य स्वैक्यविमर्शिनीत्यस्य पश्चाद्वयाख्यानमसङ्गतवद्भाति ; तथाऽपि अस्य परमपुरुषार्थरूपस्य कथनानन्तरं सिद्ध्यादिफलकथनं असङ्गतम् 1 अतः सूत्रकारस्य तत्क्रमेणान्वितवाक्यादेव बोधोऽभिप्रेतः इति पश्चात्पठितस्याऽपि पूर्वं व्याख्यानं ज्ञेयम् ॥ ४९ ॥
1 वरीवस्या - अ, ब२.