________________
- सर्वसाधारणक्रमः
दशमः खण्डः ---
३१९
एताभिरुक्ताभिर्विद्याभिर्युक्ता भूदार मुखी वाराही तद्विद्येत्यर्थः । सा फाल चक्रे आज्ञायां परिपूज्या ध्येयेत्यर्थः ॥ ४५ ॥
अथ वाराहीविद्यामाह—
मनुरिदमीयोऽयं वाक्पुटितं ग्लौं नभववाळिर्तावाहिरावहखिरा मुअंअंनिमः धेधिनजंजंनिमः हेहिन स्तं स्तंनिमः र्वष्टदुनार्वे सवाक्त्तक्षुखतिह्वाभकुकुशीवशब्दा यथाक्रमं मोगतिर्तावाळिरावाहिरामुवहखिधेधिन रुरुनिम : भेभिनमोमोनिम : भेभिनसदुप्रष्टासषांर्वचिचमुर्गजिस्तंनं रुरुवंश्यंशब्दोपेता वाक् ग्लौं विसृष्टधन्ताश्चसप्तमाश्चत्वारो वर्मास्त्रायफडिति द्वादशोत्तरशताक्षरा ॥ ४६ ॥
अस्या वाराह्या अयं इदमीयः । मनुः मन्त्रः । अयं वक्ष्यमाणः । अयमित्यनेन निर्दिष्टमर्थमाह-- वाक्पुटितमिति । व्याख्यातं प्राक् । प्रथमं ऐम् । 1 ततः ग्लौम् । ततः ऐं इति तदर्थः । ततः नेत्यारभ्य वान्ता ये वर्णाः तेषु क्रमेणैकैकवर्णोत्तरं मो इत्यारभ्य इयं इति वर्णान्ताः क्रमेण पूर्ववत् एकैकान् पठेत् । एवं ग्रथनपूर्वकं व श्यं पर्यन्तं पठित्वा । ततो वाक् ऐम् । ततो ग्लौं इति पठित्वा । ततः च वर्णात् सप्तमाः ठकाराः विसृष्टयन्ता विसर्गसहिताः चत्वारः त पठित्वा । वर्म हुम् । ततो अस्त्राय फट् इति पठेत् । इयं वाराहीविद्या द्वादशोत्तरशताक्षरी ज्ञेया ॥ ४६ ॥
1
श्रीपूर्तिविद्या
अथ ब्रह्मरन्ध्रे यष्टव्यां श्रीपूर्ति विद्यामाह -
पञ्चमैकादशबीजवर्जा श्रीरेव श्रीपूर्तिविद्या ब्रह्म
कोटरे यष्टव्या ॥ ४७ ॥
1