________________
३१४
परशुरामकल्पसूत्रम्
भु व ना ह्रीं कम ला श्रीं सुभ गा क्लीं " सुभगो मदनः कामः" इति कोशात् । तार उक्तः ॐ । ततो नमो भ ग व ति । ततः पूर्णे इति शे खरे अग्रभागे यस्य ईदृशं यत् अन्न इति वर्णद्वयं, अन्नपूर्णे इति पठितव्यमिति यावत् । उत्तवेत्यंशमपहाय देह्यन्तं समानम् । द ह न जा या स्वाहा । इयं अन्नपूर्णा विद्या श्रिय उपाङ्गं भवतीत्यर्थः ॥ ३० ॥
श्रियः प्रत्यङ्गं तृतीयमाह---
प्रणवः पाशादित्र्या एहि परमेश्वरीत्युक्ता वह्निवामाझ्युक्तिरिति श्रीप्रत्यङ्गमश्वारूढा ॥ ३१ ॥
पाशा दि त्र्य र्णा आं ह्रीं क्रों । आद्यवर्णद्वयं शिवयोः पाशः, क्रों । इत्यङ्कुशः । शेषं स्पष्टम् ॥ ३१ ॥
श्रीपादुकां तुरीयमाह
तारित्रिकं सप्तममुद्रा शिवशक्तिसंवर्तपुपञ्चमपुरन्दरवरयूं शक्तिशिवक्षमान्ते वादिवरयीं शिवभृगुत्रिशूलबिन्दुभृगुशिवत्रिशूलविसृष्टयः श्रीपूर्वं स्वगुरुनामतोऽष्टाक्षरी चेति श्रीपादुका च ॥ ३२ ॥
ता रित्रि कं त्रितारी । सप्त म मुद्रा तबीजमुक्तम् । शिवः हः शक्तिः सः । संवतः क्षः, क्षकारस्य प्रळयम्य च] चरमदशारूपत्वात् क्षकारस्य चरमत्वरूपसंवर्तरूपत्वम् । पु : पवर्गः तस्य पञ्च मो मकारः, पुरन्द रो लः, एतान् पठित्वा ततो बर यूं इति पठित्वा ततः शक्तिः सः शिवः हः क्ष मौ श्रूयमाणमेव वर्णद्वयम् । अमीषा मन्ते अग्रभागे वा दिः वात् पूर्ववर्णो मातृकासु लः ततो व र यी ततः शि वः हः भृगुः सः त्रिशूलं औ बिन्दुः ड्सौं इति संपन्नम् । भृगु शि व त्रिशूला उक्ताः । वि सृष्टिः विसर्गः । ततः स्व गुरोर्दीक्षाना म । ततः श्री पा दु कां। इत्य ष्टा क्ष र पाठः । अष्टाक्षरे आदौ य: श्रीवर्णः तस्थ पूर्व गुरु ना मे त्य र्थः । एषा श्री पादुका ॥ ३२ ॥