________________
— दशमः खण्ड:--सर्वसाधारणक्रमः
३१३ वाक् ऐं, का मः क्लीं, शक्तिः सौः । इमाः प्रथमं क्रमेण पठित्वा पश्चात् विपरीतं पठित्वा पुनः क्रमेण पठेत् । एवं सति इयं नवार्णा श्रि यो ऽङ्ग भूता बाला भवति । श्रियोऽङ्गबालेल्यनेन त्यक्षरीबालातो व्यावृत्तिः दर्शिता । व्यक्षरी तु शुद्धबाला । सैव कुमारीपदवाच्या । तावुभौ पर्यायौ । ब्यक्षाः केवलबालापदवाच्यत्वे प्रमाणं तु तन्त्रान्तरे--
शृणु देवि प्रवक्ष्यामि बालाया मन्त्रसाधनम् ।
इत्युपक्रम्य------
वाचं कामं समुच्चार्य शक्तिबीजं ततः पठेत् ।
इयं बाला त्र्यक्षरी सा या पुरोक्ता तवानघे ॥ इति वचनम् । तेन दीक्षाकाले बालामुपदिश्येत्यनेन त्र्यक्षरी ग्राह्या । न नवाक्षरी । इयं श्रियोऽङ्गबाला । अत एव विशेषणं स्वरसं. तात्पर्यविषयविशेषणस्य स्वसजातीयवम्त्वन्तरव्यावर्तकत्वात् , यथा “ रक्तघटमानय" इत्यनेन नीलादिव्यावृत्तिः ।।
नच--नीलघटः घटानतिरिक्तः, विशिष्टस्यातिरिक्तत्वाभावात् , तथा प्रकृतेऽपि श्रियोऽङ्गबालेव बालापदेनोच्यते न शुद्धा-इति वाच्यम् । न हि विशेषवाचकपदम्य सामान्यवाचकत्वं लक्षणामृते संभवति, यथा “रक्तघटमानय '' इत्यत्र समुदायस्य केवलघटे लक्षणामृते । अथवा विशेषणमविवक्षितमित्यनुक्त्वा वा घटसामान्यबोधः संभवति । तावुभावपि पक्षौ प्रमाणान्तराश्रयमन्तरा न संभवतः ।।
तस्मात् श्रियोऽङ्गबाला शुद्धबालातोऽन्या । अत एव तन्त्रसारे आदौ शुद्धकाळीमन्त्रमुक्त्वा “अथ वक्ष्ये गुह्यकाळीविद्यां सर्वार्थसाधिनी'' इत्यधिकारान्तरं चक्रे । इत्यलमसदावेशेन ॥ २९ ॥
श्रिय उपाङ्गं द्वितीयमाह--
भुवना कमला सुभगा तारो नमो भगवति पूर्णेशेखरमन्न ममाभिलषितमुक्त्वाऽन्नं देहि दहनजायेति श्रिय उपाङ्गमन्नपूर्णा ॥ ३०॥