________________
३१२
परशुरामकल्पसूत्रम्
समष्टि रू पिणी का ल स्य मृत्योः सङ्कर्षिणी विनाशिनी पर मा युः शतवर्षपर्यन्तं तत्प्रदेत्यर्थः ।। २५ ॥
चतुर्थमाह
त्रितारी सप्तममुद्रा शिवयुक्शक्तिरहंयुगळमेतत्पञ्चवैलोम्यमिति शुद्धज्ञानमयी शाम्भवी विद्या ॥२६॥
त्रि तारी उक्ता । अत्र सप्त म मुद्रा पदेन तबीजं, तदुक्तं प्राक् । शि वः हः तेन युक्श क्तिः सौः, सौः । अहं युग ळं अहमिति द्विः पाठः । एवं क्रमेण पश्चावयवाः । प्रथमावयवस्त्रितारी, हलफ्रें द्वितीयः, हसौः तृतीयः, अहंयुगळं चतुर्थपञ्चमौ । एते पञ्चावयवाः विपरीतं पठिताश्चेत् शांभवी विद्या । शुद्ध ज्ञा नं निर्विषयं, तत्स्वरूपा केवलब्रह्मस्वरूपेत्यर्थः ॥ २६ ॥
पञ्चममाह--
भृगुत्रिशूलविस्मृष्टयः परा विद्या ॥ २७ ॥ भृगुः सः त्रिशूलं औ वि सृष्टिः विसर्गः । मिळित्वा परा विद्या भवति ॥ २७ ॥
पञ्चेमा रश्मयो मूलाद्यधिष्ठानतया परिकल्पनीयाः॥२८॥ स्पष्टम् । पञ्च पञ्चमन्त्राः ॥ २८ ॥
अंगोपांगप्रत्यंगपादुकायुक्ता श्रीविद्या मूलाधारादिषु एकैकस्थाने एकैकविद्यायोजनमुक्त्वा, इतः परं अङ्गोपाङ्गप्रत्यङ्गपादुकायुक्तमूलविद्यायाः पञ्चविद्यासमष्टिरूपेणैकस्थान एव विभावनं विवक्षुः तत्रादौ श्रियोऽङ्गबालामाह
वाकामशक्तयोऽनुलोमविलोमाः पुनरनुलोमा इति श्रियोऽङ्गबाला ॥ २९ ॥