________________
दशमः खण्डः-सर्वसाधारणक्रमः
३११ __क्ल इति वर्णादुपरि वा मे क्षणं ईकारः, मातृकान्यासे तत्स्थानत्वात् , ततो विन्दुः, क्लीं इति सम्पन्नम् । अयं ए को ऽशः । अनन्तः हकारः यो निः ऐकारः बिन्दुः, हैं इत्यपरोंऽशः । शङ्करः हकारः परा सकारः त्रिशूलं औ विसृ ष्टिः विसर्गः सौः इति अपरों ऽशः । अत्र यद्यपि परापदेनैव विसर्गान्तलाभः, न तु केवलसकारस्य, तथाऽपि त्रिशूलविसृष्टयोः पृथगुक्त्या पराशब्देन तदेकदेशस्य सकारस्यैव ग्रहणम् । उक्तार्थेषु सर्वेषु प्रमाणमुक्तं प्राक् । अतो नात्र प्रमाणमुच्यते । येषां प्रमाणं नोक्तं तावदंशोऽत्रोच्यते । एवं अंशत्रयं क्रमेण पठित्वा व्युत्क्रमेण च पठेत् । इयं षट्कूटा संपत्करी विद्या ॥ २४ ॥
तृतीयमाह
समुच्चार्य सृष्टिनित्ये स्वाहेति हमित्युत्ता स्थितिपूर्णे नम इत्यनलबिन्दुमहासंहारिणि कृशेपदाचण्डशब्दः काळि फट् इत्यग्निबिन्दुसप्तममुद्राबीजं महानाख्ये अनन्तभास्करि महाचण्डपदात् काळि फट् इति स्मृष्टिस्थितिसंहाराख्यानां प्रातिलोम्यं खेचरीबीजं महाचण्डवाणी च योगीश्वरीति विद्यापञ्चकरूपिणी कालसङ्कर्षिणी परमायुःप्रदायिनी ॥ २५॥
उच्चा र्ये ति त्यक्त्वा स्वा हा ऽन्ता प्रथमा विद्या । इ ति शब्दं उ क्त्वे ति चापहाय नमो ऽन्ता द्वितीया विद्या । अ न ल बिन्दुः रं। ततः प दात् इति शब्द इति च त्यक्त्वा फट् इत्यन्ता तृतीया विद्या । ततः अग्नि बिन्दुः रं ततः सप्त म मुद्रा याः संक्षोभिण्यादिदशसु सप्तमी खेचरी तस्याः बी जं सूख्फ्रें । ततः पदादित्यंशमपहाय फडित्यन्ता चतुर्थी विद्या । क्रमेणोक्तासु चतसृषु विद्यासु मध्ये सृष्टिस्थितिसंहाराख्याः याः आद्यास्तिस्रः ताः प्रातिलोम्येन पठित्वा खेचरी बी ज मुक्तं पठित्वा वाणी च इत्येतावदंशमपहाय यो गीश्वर्यन्तं पठेत् । इयं पञ्चमी विद्या । एवं पञ्च विद्या