________________
३१५
दशमः खण्ड:--सर्वसाधारणक्रमः एताभिश्चतसृभिर्युक्ता मूलविद्या साम्राज्ञी मूलाधारे विलोचनीया ॥ ३३ ॥
बालादि च त सृ भिर्युक्ता मूल विद्या वक्ष्यमाणा मूलाधारे विलो च नी या . ध्येयेति यावत् ॥ ३३ ॥
मूलविद्यामाह
मादनशक्तिबिन्दुमालिनीवासवमायाघोषदोषा - करकन्दर्पगगनमघवद्भुवनभृगुपुष्पबाणभूमायोति सेयं तस्या महाविद्या ॥ ३४ ॥ त स्याः साम्राज्ञीनामिकायाः ॥ ३४ ॥
अंगादियुक्ता श्यामाविद्या अथ हृच्चक्रे ध्येयश्यामाऽङ्गविद्यामाह
वाङ्नतिरुच्छिष्टचाण्डालिमातमुक्ता गिसर्वपदाद्वशंकरिवहिवामलोचनेति श्यामाऽङ्गं लघुश्यामा ॥३५॥
वाक् ऐं न तिः नमः एतदुत्तरं उक्त्वा पदा दि ति त्यक्त्वा स्वाहाऽन्तो यथाश्रुतो मन्त्रः । इयं लघु श्या मा श्या मा ऽङ्ग भूता ॥ ३५ ॥
उपाङ्गमाह---
कुमारीमुच्चार्य वदद्वन्द्वं वाक्पदं वादिनि वह्निप्रियेति श्यामोपाङ्गं वाग्वादिनी ॥ ३६ ॥
कु मारी बाला । ततो व दे ति द्विवारम् । ततः पद मिति वर्णद्वयं त्यक्त्वा स्वाहाऽन्तं पठेत् । इयं वा ग्वा दिनी विद्या त्रयोदशवर्णा ॥ ३६ ॥