________________
२९८
परशुरामकल्पसूत्रम् विज्ञा प्य प्रार्थ्य ए ता व कर्म सिद्धय थै अमुकफलसिद्धयर्थ एतावत्कर्मामुकसङ्ख्याकाहुतीः । कार्यतारतम्येन आहुतिसङ्ख्यातारतम्यं ज्ञेयम् ॥ २३ ॥
ससाधनं होमं विधत्ते--
तिलाज्यैः शान्त्या अन्नेनानायामृताय समिचूतपल्लवैवरशमाय दूर्वाभिरायुषे कृतमालैर्धनायोत्पलै गाय बिल्वदळे राज्याय पनैः साम्राज्याय शुद्धलाजैः कन्यायै नन्द्यावतैः कवित्वाय वजुळेः 'पुष्टयै मल्लिकाजातीपुन्नागैर्भाग्याय बन्धूकजपाकिंशुकवकुळमधुकरैरैश्वर्याय लवणैराकर्षणाय कदम्बैः सर्ववश्याय शालितण्डुलैर्धान्याय कुङ्कुमगोरोचनादिसुगन्धैः सौभाग्याय पलाशपुष्पैः कपिलाघृतैर्वा तेजसे धुत्तूरकुसुमैरुन्मादाय विषवृक्षः निम्बश्लेष्मातकविभीतकसमिद्भिःशत्रुनाशाय निम्बतैलाक्तलवणैरिणाय काकोलूकप:विद्वेषणाय तिलतैलाक्तमरीचैः कासश्वासनाशाय जुहुयात् ॥ २४ ॥
तिला ज्यैः तिलसहिताज्यैः । यावत्सङ्ख्याकाज्याहुतयः तावत्सङ्ख्याकतिलाहुतयः कार्याः इति निष्कर्षः । साहित्यं द्वन्द्वसमासलभ्यं ज्ञेयम् । शान्त्यै शान्तिर्नाम उत्पत्स्यमानानिष्टप्रागभावसंरक्षणम् । अन्ने नोदनेन अन्न लाभाय अमृ ता य मोक्षाय । स मिच्च त पल्ल वैः इति तिलाज्यवत् । समिधश्च यज्ञीयवृक्षसम्बन्धिनो ग्राह्याः । दूर्वाः प्रसिद्धाः । कृत मा लै: आरेवतैः, "आरेवतव्याधिघातकृतमालसुपर्णकाः" इत्यमरः । शुद्ध लाजै रि ति शुद्धत्वं गृहे निर्मितत्वम् । न न्या वतैः तगरैः । वजुलैः चित्रकृद्भिः, “ वजुळश्चित्रकृच्चाथ ” इत्यमरः । बन्धू को महाराष्ट्रभाषया
1 पुष्पैर्म-अ, व.