________________
नवमः खण्ड:--होमविधिः
२९७ आ वा हनं पूजाप्रकरणोक्तसरण्या । पञ्चोप चा रैः गन्धादिभिः ॥ २० ॥
चक्रदेवीनामाहुतयः सर्वासां चक्रदेवीना' मेकाहुति हुत्वा, नमोऽन्तान् पादुकाऽन्तान् शेषान् मन्त्रान् स्वाहाऽन्तान् विधाय जुहुयात् ॥ २१ ॥
सर्वा सा मिति तत्तदावरणदेवताषडङ्गौघत्रयनित्याऽऽदीनां मध्ये यस्मिन् पूजाप्रकरणे यावत्यो विहिताः तासां सर्वासां इत्यर्थः । द्रव्यस्यानुक्तत्वादाज्यम् । न मोऽन्ता नि ति---ये च नमोऽन्ता मन्त्राः बाणमन्त्राः वशिन्यादिमन्त्राश्च पादु का ऽन्ता मन्त्रा गुरुपादुकामन्त्रादयः, एतदुभयभिन्नाः केवलं नाम्नैवोद्धताः अणिमासिद्ध्यादयः "शेषाः एतान् सर्वान् स्वाहाऽन्तान् कृत्वा तेन होतव्यं इत्यर्थः । श्रीक्रमे पञ्चदशनित्याऽनन्तरं सर्वरोगहरचक्रे कामेश्वर्याद्यनन्तरं मूलेन पूजनवन्न होमः. तस्याः प्रधानदेवतारूपत्वेन तम्या आहुतेः वक्ष्यमाणत्वात् ॥ २१ ॥
प्रधानदेवताऽऽहुतयः एवं अग्निसंस्कारानुक्त्वा प्रधानहोमधर्मानुपदिशति---
अथ प्रधानदेवतायै दशाहुतीर्जुहुयात् ॥ २२ ॥ अथेत्यनेन अङ्गदेवताहोमविच्छेदः सूचितः ॥
एतावत्पर्यन्तं सर्वप्रयोगसाधारणम् । पुरश्चरणाङ्गहोमः काम्यहोमो वा सर्वोऽप्येतदुत्तरं भवति ॥ २२ ॥
काम्यहोमविधिः अथ काम्यहोमं विदधाति--
यदि काम्यमीप्सेदभीष्टदेवतायै विज्ञाप्य सङ्कल्पं कृत्वैतावत्कर्मसिद्धयर्थमेतावदाहुतीः करिष्यामीति ॥ ' मेकैका-श्री. अशेषान्–श्री. 'अशेषाः--श्री, व२.