SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २९६ परशुरामकल्पसूत्रम् सप्तजिह्वाहोम: सप्तजिह्वाऽऽहुतीराह- हिरण्यायै कनकायै रक्ताये कृष्णायै सुप्रभायै अतिरक्तायै बहुरूपायै नमः इत्यग्नेः सप्तजिह्वासु मूलशुद्धेनाज्येन सप्ताहुतीः कुर्यात् ॥ १८ ॥ नमः इति सर्वत्रानुषज्यते । मूलशुद्धेन मूलाभिमन्त्रणेन संस्कृतेन । अभिमन्त्रणं सङ्ख्याऽनुक्तेः सकृन्मूलेन । नमः पदोत्तरं स्वाहायोगः, होमरूपत्वात्, स्वाहा होमे तर्पणे तु तर्पयामीति योजयेत् " इति योगिनीतन्त्रवचनात् ॥ १८ ॥ 66 अग्राहुतित्रयम कर्मशेषमुपदिशति सूत्रान्तरेण--- वैश्वानरोत्तिष्ठचित्पिङ्गळैरग्ने स्त्रिधाऽऽहुतिं विधाय ॥ १९ ॥ वैश्वानरोत्तिष्ठ चिपिङ्ग ळै रिति पूर्वपठितैः त्रिभिर्मन्त्रैः इत्यर्थः । त्रिधा त्रिवारम् । अनेन कर्माभ्यास नाहुतिभेदः इति सूचितः । वैश्वानरादिमन्त्रत्रये स्वाहाकारोऽस्ति । तथाऽप्यन्यस्वाहाकारो होमकाले योज्यः । तदुक्तं शक्तिसङ्गमतन्त्रेमन्त्रान्ते या वह्निजाया सा तु मन्त्रस्वरूपिणी । तदन्तेऽन्यां प्रयुञ्जीत सा होमाङ्गतया मता ॥ इति ॥ अत्र मन्त्रलिङ्गेनैव देवतालाभे पुनरग्नेरिति कथनात् त्रिष्वपि होमेषु “ अग्नय इदं न मम " इति त्यागं गमयति । अन्यथा “ वैश्वानरायेदं न मम " इति लिङ्गेन प्राप्नुयात् ॥ १९ ॥ इष्टदेवताssवाहनादि अथेष्टदेवताऽऽवाहनमाह बहुरूपजिह्वायामिष्टां देवतामावाह्य पञ्चोपचारै रुपंचर्य ॥ २० ॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy