________________
नवमः खण्डः-होमविधिः
२९५ परितस्तु परिस्तरेत्" इति वचनात् । परिधा य श्रौतोक्तधर्मकसमिद्भिः प्राग्वज त्रिषु । क्रमादिकं काष्ठनियमः श्रौतात् ज्ञेयः ॥ १५ ॥
अग्निध्यानम्
अथ साधिताग्नेः ध्यानमाह---- . त्रिणयनमरुणजटाबद्धमौळिं सशुक्लां
शुकमरुणमनेकाकल्पमम्भोजसंस्थम् । अभिमतवरशक्तिं स्वस्तिकाभीतिहस्तं
नमत कनकमालालङ्कृतांसं कृशानुम् ॥ इति ध्यात्वा ॥ १६ ॥
अग्निचक्रे देवतास्थापनम् पूर्वकल्पिताग्निचक्राष्टकोणादिषु देवतास्थापनमाह
अष्टकोणे जातवेदसे सप्तजिह्वाय हव्यवाहाय • 'अश्वोदराय वैश्वानराय कौमारतेजसे विश्वमुखाय
देवमुखाय नम इति षट्कोणे षडङ्गं त्रिकोणे अग्निमन्त्रेण अग्निं पूजयित्वा ॥ १७ ॥
अष्ट को णे अनुक्तत्वात् प्रागादिप्रादक्षिण्यक्रमः । षट् को णे ऽपि तथैव । अनि मन्त्रेण “अग्निं प्रज्वलितं'' इत्युपस्थापनमन्त्रेण, अग्निलिङ्गस्य स्पष्टत्वात् । पूजनं च पञ्चोपचारैः मन्त्रावृत्त्या ज्ञेयम् ॥ १७ ॥
1 अश्वोदरजाय-अ.