________________
नवमः खण्डः - होमविधिः
दुयारी इति प्रसिद्धः । किंशुकः पलाशः । अग्रे पलाशपुप्पैरिति स्वातन्त्र्येण तेजस्साधनत्वं बोध्यते । इह तु बन्धूकादिसहितस्य ऐश्वर्यसाधनत्वं इति न पुनरुक्तिः । मधुकरैरिति योगेन मधुपुप्पाणां ग्रहणम्, न तु रूढ्या भ्रमरग्रहणं, पुप्पसाहचर्यात् । विषवृक्षाः महाराष्ट्रभाषया काजा इति प्रसिद्धम् । अत्र वृक्षशब्दः तत्समिलक्षकः, अग्रे समित्साहचर्यात् । श्लेष्मा त कः शेलुः “ शेलुः श्लेष्मातकः " इति कोशात् । वि भी त क; अक्ष:, “ त्रिलिङ्गस्तु विभीतकः । नाक्षस्तुषः कर्षफल : " इति कोशात् । द्वन्द्वसमासाभावात् विषवृक्षसमिधः निम्बादिसमिद्भिः सह विकल्प्यन्ते । शत्रुनाशकर्मणि द्वयोस्तुल्यसाधनत्वम् । शत्रुनाशोऽत्र न मरणम्, मारणप्रयोगस्य पृथग्वक्ष्यमाणत्वात् किं तु तदीयपशुपुत्रादिनाशः । विद्वेषः स्वशत्रोर्यः प्रबलाश्रयभूतः तेन साकम् । तिलतैलाक्ते ति—' का सश्वा सः रोगविशेषः ॥
"
२९९
ननु किमनेन द्रव्यविशिष्टं कर्म फलाय विधीयते, उत वाक्यान्तरेण प्राप्तहोमसामान्यमनूद्य द्रव्यफलसम्बन्धो विधीयते इति चेत्---
46
अत्र केचित् — द्वितीयपक्ष एव युक्तः । विशिष्टविधिपक्षे षष्ठो विधिः अत्यन्तगुरुभूतः, गुणफलसम्बन्धपक्षो लघुभूतः, अन्यथा “ दध्नेन्द्रियकामस्य जुहुयात् " इत्यत्रापि तथात्वापत्तेः । न च - " दतेन्द्रियकामस्य " इत्यत्र वाक्यान्तरेण लब्धहोमानुवादो युक्तः, इह धात्वर्थप्रापकप्रमाणान्तराभावात् कथमनुवादः इति वाच्यम् । होमविधानं व्याख्यास्यामः इत्यधिकारात् प्रकरणेन तन्त्रशास्त्रप्राप्तपुरश्चरणाद्यङ्गभूतहोमानुवादेन गुणविधिसंभवात्——इत्याहुः ।।
तदसत् । यदि पुरश्चरणाद्यङ्गभूतहोमानुवादेन द्रव्यं फलाय विधीयते, तर्हि तत्र तद्दशांशसङ्ख्याया होमे कुप्तत्वेन श्रीदेवतायै विज्ञापनविधिसूत्रे “ एतावदाहुतीः करिष्यामि " इति सर्वनाम्ना निर्देशो विफलः । " जपदशांशं करिष्यामि " इति वदेत् । मन्मते कार्यगौरवलाघवाभ्यां ह्रासवृद्धिसंभवात् अनियतसङ्ख्याकत्वेन सर्वनाम्ना निर्देशो युक्तः ॥ न च जपं विहाय केवलहोमो नोपलभ्यते अन्यतन्त्रेषु इति शङ्कनीयम् । अगस्त्य संहितायां चोळराज्ञो रिपोः पाण्ड्यस्य संहारार्थं नग्नाः केवलं निम्बतैलमिश्रि1 कासश्वास रोगविशेषौ - श्री.