SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ परशुरामकल्पसूत्रम् कुण्डे स्थण्डिले वा अष्ट कोणा दिनिर्माणं प्रवेशरीत्या कार्यम्, त्रिकोणस्याभ्यन्तरे भूरि दर्शनात् । पीता या इत्यादि ज्ञानात्मने नमः इत्यन्तं स्पष्टम् । aa त्रिकोण एव । क्रमस्तु स्वाग्रादिप्रादक्षिण्येन ॥ ७ ॥ 1 २९२ aritश्ववागीश्वरपूजा एवं पीठशक्तिपूजामुक्त्वा ततः अग्निप्रतिष्ठामुपदिशति---- ततो जनिष्यमाणवह्नेः पितरौ वागीश्वरीवागीश्वरौ पीठेऽभ्यर्च्य तयोर्मिथुनीभावं भावयित्वा ह्रीं वागीश्वरीवागीश्वराभ्यां नमः इति ध्यात्वा ॥ ८ ॥ पीठे त्रिकोणात्मके अभ्यर्चितदेवताविशिष्टे । तयोः वागीश्वरीवागीश्वरयोः मिथुनीभावं मैथुनकर्म मनसा भावयित्वा । ध्यात्वेति ध्यानं कामेश्वरीकामेश्वरवत् तदभिन्नत्वात् ॥ ८ ॥ संविदनिपातनम् अरणेः सूर्यकान्तात् द्विजगृहाद्वा वह्निमुत्पाद्य मृत्पात्रे ताम्रपात्रे वा आग्नेय्यामैशान्यां नैर्ऋत्यां वा निधाय अग्निशकलं क्रव्यादांशं नैर्ऋत्यां विसार्य निरीक्षणप्रोक्षणताडनावकुण्ठनादिभिः विशोध्य ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा इति मूलाधारोद्गत संविदं ललाटनेत्रद्वारा निर्गमय्य तं बाह्याग्नियुक्तं पातयेत् ॥ ९ ॥ अरणिः प्रसिद्धः । द्विज गृ हे यः पचनाभिः तस्यानयनमेव तदुत्पादनम् । पात्रनियममाह – मृत्पात्र इति । स्थापनदेश नियममाह - आ मे य्या मिति ।
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy