SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ नवमः खण्ड : - होमविधिः २९३ " क्रव्यादांश मिति अमेध्यांशं इत्यर्थः " य एतान् क्रव्यात्तमपहत्य मेध्येऽमौ कपालमुपदधाति ” इति श्रुतेः । विसार्य बहिर्निरस्य । निरीक्षणं स्वनेत्राभ्याम् । प्रोक्षणं सामान्यायोंदकेन । ताडनं अभिघाताख्यः संयोगविशेषः । अ व कु ण्ठ नं पूर्वदर्शितमुद्रा । आदि पदेन वेनुयोनी, स्थलान्तरे अवकुण्ठनसहपाठात् । एतैः विशो ध्य संस्कृत्य । तस्मिन् पात्रे चिदग्न्यादानप्रकार माह – ॐ वैश्वानरेति । ललाटनेत्र द्वारा भ्रूमध्यद्वारा निर्गमय्य निर्गमनं विभाव्य । तं चिदग्निम् | बा ह्या नियुक्तं इत्यनेन चिदग्मेः प्राधान्यं सूचितम् भृत्ययुक्तराजेतिवत् । पा त ये त् इत्यस्मात् पूर्व पूर्वनिर्मिताग्निचक्रे इति शेषः ॥ ९ ॥ 1 " इन्धनैराच्छादनम् कवचमन्त्रेण इन्धनैराच्छाद्य ॥ १० ॥ कवच मन्त्रेण हुं इत्यनेन ॥ १० ॥ उपस्थानम् अथोपस्थानमाह अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णमनलं समिद्धं विश्वतोमुखम् ॥ इत्युपस्थाय ॥ ११ ॥ उपस्थानं नाम अग्नेरपरभागे कृताञ्जलेस्तिष्ठतो मन्त्रपाठः ॥ ११ ॥ 1 उत्थापनम् भूमौ मृण्मयपात्रे पूर्व आग्नेयाद्यन्यतमदिक्षु स्थापिताग्नेः कुण्डे प्रक्षेपार्थं उत्थापने मन्त्रमाह उत्तिष्ठ 'हरितपिङ्गळ लोहिताक्ष सर्वकर्माणि साधय मे देहि दापय स्वाहा इति वह्निमुत्थाप्य ॥ १२ ॥ पुरुषह - श्री.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy