________________
नवमः खण्डः-होमविधिः
२९१ षट्ता री त्रितारीकुमारी प्रथम, ततो ब्रह्मणे न मः इति । एवं च षट्तारनमसंपुटिता भवन्ति । एवमेव य मा येत्यादौ योज्यम् । न म स्सं पु टि तान् इत्यनन्तरं पठित्वेति शेषः । अभ्य येत्यस्य कर्माकाङ्क्षायां मन्त्रलिङ्गात् देवता योज्या ॥ ५ ॥
कुण्डाभ्यर्चनम् सहस्रार्चिषे हृदयाय नमः, स्वस्तिपूर्णाय शिरसे खाहा, उत्तिष्ठपुरुषाय शिखायै वषट्, धूमव्यापिने कवचाय हुँ, सप्तजिह्वाय नेत्रत्रयाय वौषट् , धनुर्धराय अस्त्राय फट्, इति षडङ्गं विधाय तेन षडङ्गेन कुण्डमभ्यर्च्य ॥ ६॥
उक्तषण्मन्त्रैः स्वदेहे. हृद यादिषडङ्गन्यासानन्तरं कुण्डे तैरेव मन्त्रैः ।। ___ अमीशासुरवायुषु मध्ये दिक्षु च षडङ्गयुवतीः पूजयेत् ॥ ६ ॥
अग्निचक्रनिर्माणादि . ततः अग्निचक्रनिर्माणादिकमाह
तत्राष्टकोणषट्कोणत्रिकोणात्मकं अग्निचक्र विलिख्य पीतायै श्वेतायै अरुणायै कृष्णायै धूम्रायै तीब्रायै स्फुलिङ्गिन्यै रुचिरायै ज्वालिन्यै नम इति त्रिकोणमध्ये वह्नः पीठशक्तीः संपूज्य तं तमसे रं रजसे सं सत्त्वाय आं आत्मने अं अन्तरात्मने पं परमात्मने ह्रीं ज्ञानात्मने नमः इति तत्रैवाभ्यर्चयेत् ॥