________________
1
२८८
परशुरामकल्पसूत्रम्
सामान्य पादुका दीक्षाप्रकरणे पठितगुरुपादुकामन्त्रेण ॥ २३ ॥
चिनम्
पुनश्चिदग्निमुद्दीप्तं विभाव्य ॥ २४ ॥
उद्दीप्तं विशेषेण दीप्तं विभाव्य ॥ २४ ॥
ओयाभ्यर्चनम्
दिव्यौघं तिस्रः पादुकाः सिद्धौघं तिस्रः मानवौघमष्टावभ्यर्च्य ॥ २५ ॥
दिव्यौघ सिद्धौघमा नवौ घानां अर्चनं आवरणदेवताऽर्चनवद्विशेषार्ध्यद्रव्येण स्वहृदय एव कार्यम् || २५ ॥
दिव्यौघादीनाह
पराभट्टारिकाऽघोर श्रीकण्ठशक्तिधरक्रोधत्र्यम्बका
नन्दप्रतिभादेव्यम्बावीरसंविदानन्दमधुरादेव्यम्बा - ज्ञानश्रीरामयोगा इति पराक्रमपादुकाः ॥ २६ ॥
पराभट्टारिका अघोरः श्री क ण्ठः इति दिव्यौघः । शक्ति धरः क्रोधः त्र्यम्बकः इति सिद्धौघः । आनन्दः प्रतिभा देव्यम्बा वीरः संविदानन्दः मधुरा देव्यम्बा ज्ञानः श्री रामः योगः इति मानवौघः ॥ २६ ॥
बलनिवेदनम्
ततः कळामनुना बलिं निवेद्य ॥ २७ ॥
99
त तः अर्चनानन्तरम् । कळा मनुना सौः इत्यनेन " पातु मां परमा कळा इत्यत्र परायाः कळापदवाच्यत्वं निर्णीतम् । अतस्तन्मनुरसावेव भवितुमर्हति ।