________________
नवमः खण्डः --- होमविधिः
बलिदाने धर्माः श्रीक्रमोक्ताः ग्राह्याः, एकदेवताकत्वेन साजात्यात् । अत्र जपस्य उपासनाकालस्य वाऽनुक्तेः, अयं प्रयोगः सकृदेव । यद्वा - श्यामावार्ताळीसाहचर्यात् जपसङ्ख्या अनुक्ता तत्रत्या ग्राह्या । तावज्जपपर्यन्तमुपास्तिः । अत एवा सूत्रकारः जपकालं वक्ष्यति ॥ २७ ॥
विशेषस्वीकार:
हविश्शेषमात्मसात्कुर्यात् । इति शिवम् ॥ २८ ॥
इति ... कल्पसूत्रे पराक्रमो नामाष्टमः खण्डः
२८९
ह् विश्शेषात्मसात्कारः श्रीक्रमवत् । आत्मसात् कुर्यात् इत्येवोक्त्या अत्र सामयिकाभावः सूचितः । शिव मिति व्याख्यातमेव ॥ २८ ॥
इति ... कल्पसूत्रत्तौ पराक्रमो नामाष्टमः खण्डः
नवमः खण्डः - होमविधिः
होम धिकारः
अथ गणपतिक्रमे नित्य होमप्रसक्तौ ललिताऽऽदिपुरश्चरणाङ्गहोमस्य अन्यत्र काम्यहोमस्य वा प्रसक्तौ तदितिकर्तव्यताज्ञानस्यावश्यकतया तदर्थं होमविधिं वक्तुमारभते
37
अथ स्वेष्टमन्त्रस्य होमविधानं व्याख्यास्यामः ॥ १ ॥