________________
अष्टमः खण्ड:-परा-क्रमः
देवीपूजा अथ पूजामाह
मूलादिमुच्चार्य प्रकाशरूपिणी पगभट्टारिका मूलमध्यमुच्चार्य विमर्शरूपिणी पराभट्टारिका मूलान्त्यमुच्चार्य प्रकाशविमर्शरूपिणी पराभट्टारिकेति त्रिभिः देव्या मूलहन्मुखेष्वभ्यर्च्य समस्तमुच्चार्य महाप्रकाशविमर्शरूपिणी पराभट्टारिकेति दशवारमवमृश्य तामेव देवीं कालाग्निकोटिदीप्तां ध्यात्वा ॥ २१ ॥
मूला दि सकारम् । तत्र बिन्दुयोगोऽपि । एवं मूलद्वितीयं औं । तृतीयं अः । मन्त्रस्वरूपं तु—सं प्रकाशरूपिणीपराभट्टारिकाश्री° । एवमन्यत् । दे व्या मूलं मूलाधारम् । इदं पूजनं विशेषार्घ्यद्रव्येण 'आवरणदेवतावत् स्वहृदये ज्ञेयम् । समस्तं संपूर्ण मूलमित्यर्थः । श्रीपादुकेल्याद्रियोजनं अत्रापि । अव मृ श्य पूजयित्वा ॥ २१ ॥
देव्यामखिलतत्त्वहोमभावनम ततः कृत्यशेषमुपदिशति--- 'तस्यां क्रियासमभिव्याहारेण वेद्यमखिलं हुत्वा ॥२२॥ तस्यां दीप्ती हु त्वा हुतं भावयित्वा ॥ २२ ॥
गुरवे अय॑निवेदनम् मूलमुच्चार्य सामान्यपादुकया स्वमस्तकस्थाय गुरवे अयं निवेद्य ॥ २३ ॥ 1 परदेवतावत्-अ, श्री.
तस्या :-ब२.