SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ परशुरामकल्पसूत्रम् प्रथमं केवल मूले नैकवारं कुसुम क्षेपः । ततो वक्ष्य मा णै कैकतत्त्वमन्त्रेण । मूलादिना योग पीठाय नमः इत्यन्तेनैकवारं कुसुमाक्षतक्षेपः वक्ष्यमाणैर्मन्त्रैः । यथा तत्र तत्त्वमन्त्रस्वरूपं———पृथिवी योगपीठाय नमः इति । एवं शिवा न्तेषु योज्यम् । एवं हृदये षट्त्रिंशद्वारं मूलेन निरुक्तषट्त्रिंशत्तत्त्वमन्त्रैश्च कुसुमानां प्रक्षेप एव पराचक्रनिर्मितिः इति भावः । ता नि चेत्यत्र लिङ्गव्यत्यय आर्षः । षट्त्रिंशत्तत्त्वान्याह - पृथिवी ति शिवा इत्यन्तेन । यद्यपि तन्त्रान्तरे शिवादिपृथिव्यन्त क्रमस्तत्त्वानामस्ति, तथाऽपि प्रकृते अनेनैव क्रमेण मन्त्रैः पुष्पक्षपोऽपूर्वसाधनमिति विपरीतपाठः । तत्त्वस्वरूपं व्याख्यातं प्राक् ॥ १८ ॥ देव्या आवाहनम् २८६ कल्पितचक्रे आवाहन माह तत्रैतदैक्यविमर्शरूपिणीं षोडशकलां परां देवी मावा ॥ १९ ॥ एतेषां तत्त्वानां य ऐक्य विमर्शः ऐक्यप्रकाशशक्तिः तद्रूपिणीं आवाहयेत् । अन्यत् स्पष्टम् ॥ १९ ॥ देवीध्यानम् एवमावाहनमुक्त्वा आवाहिताया ध्यानप्रकारमाह अकळङ्कशशाङ्काभा त्र्यक्षा चन्द्रकलावती । मुद्रापुस्तलसद्दाहुः पातु मां परमा कला ॥ इति ध्यात्वा ॥ २० ॥ अ क ळ ङ्कः कळङ्कशून्यः यः शशाङ्कः चन्द्रः तत्तुल्या भा । मुद्रा चिन्मुद्रा पुस्तं पुस्तकम् । एतेन द्विबाहुत्वं स्पष्टम् । अत्र पुस्तकं वामहस्ते, गणपतिप्रकरणलिखितयामळवचनात् । परिशेषात् मुद्रा दक्षे ॥ २० ॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy