________________
२८५
अष्टमः खण्ड:--परा-क्रमः स्वाहा इति सुधादेवीमभ्यर्च्य तया संप्रोक्ष्य वरिवस्यावस्तूनि ॥ १६ ॥ मूल मुच्चार्ये ति । तया सुधादेव्या व रि वस्या वस्तू नि पूजाद्रव्याणि ॥१६॥
तत्त्वकदम्बस्य हृत्पद्मानयनम् पूर्वं नाभौ संमुद्रितं चिदग्निविलीनं तप्तायोद्रववत् षट्त्रिंशत्तत्त्वकदम्बकं हृत्सरोजे समानीय ॥ १७ ॥
पूर्व, पात्रसादनात् पूर्वमित्यर्थः । तप्ता यो द्रव व त् तप्तसुवर्णरसवत् , वेदे निघण्टौ सुवर्णपर्याय अय:पदसत्त्वात् प्रकृतायःपदमपि सुवर्णवाचकम् । इत्थं च पूर्व नाभौ षट्त्रिंशत्तत्त्वानि एकीकृत्य चिदग्निना द्रवीभावः संपादितोऽस्ति, ताननुद्य हृदये तद्रसस्य समानयनं विधीयते ॥ १७ ॥
पराचक्रनिर्माणम अथ पराचक्रं वक्तुं प्रक्रमते------
मूलजप्तैः कुसुमक्षेपैः वक्ष्यमाणैश्च मन्त्रैरासनकृप्तिं कुर्यात्-मूलादियोगपीठाय नम इत्यन्तानि तानि च पृथिव्यप्तेजोवाय्वाकाशगन्धरसरूपस्पर्शशब्दोपस्थपायुपादपाणिवाग्घ्राणजिह्वाचक्षुस्त्वक्श्रोत्राहङ्कारबुद्धिमनःप्रकृतिपुरुषनियतिकालरागकला - विद्यामायाशुद्धविद्येश्वरसदाशिवशक्तिशिवाः। एवं पराचक्रं कृत्वा ॥ १८॥
1 माक्षतैः-श्री.