________________
२८४
परेशुरामकल्पसूत्रम्
परामन्त्रेषु योजनीयो बीजविशेषः पराक्रमे सर्वमन्त्रेषु बीजविशेषयोगमाहसर्वेऽपि पराक्रममनवः 'सौः वर्णपूर्वाः कार्याः ॥१३॥
षडङ्गन्यासविशेषः विशेषाध्ये श्यामातो योऽधिकांशः तमाह
भृगुचतुर्दशषोडशद्विरावृत्त्या वर्णषडङ्ग सर्वमूलषडावृत्त्या मत्रषडङ्गं च कृत्वा ॥ १४ ॥
भृगुः सकारः, च तुर्द शः औकारः षोड शो विसर्गः, एतेषां प्रत्येकं द्विरा वृत्त्या हृदयादिषडङ्गं कुर्यात् । अयं वर्णषडङ्गन्यासः । बिन्दुयोगश्च, शिष्टसंप्रदायात् । मन्त्रस्वरूपं ---सं हृदयाय नमः । औं शिरमे स्वाहा । अः शिखायै वषट् , विसर्गस्य केवलस्यानुच्चार्यत्वात् । एवमग्रेऽपि । इति मूलवर्णषडङ्गन्यासः । विशेषाध्ये अग्रे सुधादेवीमभ्ययेति तस्यैव संस्कारश्रवणात् तत्रैव विशेषः । मूलेन पुनः षडङ्गन्यासमाह----सर्व मू ले ति ॥ १४ ॥
षडङ्गदेवीपूजा न्यस्तानां षडङ्गदेवीनां पूजामाह -
उभाभ्यामर्चयित्वा ॥ १५ ॥ मूलवर्णमूलाभ्यामित्यर्थः ॥ १५ ॥
सुधादेवीपूजा अथ सुधादेवीपूजामाह----
मूलमुच्चार्य तां चिन्मयीमानन्दलक्षणाममृतकलशपिशितहस्तद्वयां प्रसन्नां देवीं पूजयामि नमः ' सोवर्ण-ब२.