________________
अष्टमः खण्डः पराक्रमः
२८३
पुनरनिलमापूर्य तेन मूले चिदग्निमुत्थाप्य तत्र वेद्यस्य विलयं विभाव्य ॥ १० ॥
काक चञ्चू पुटं काकमुखाग्रं तत्स मा कृ तिना स्वमुखेन सञ्चोष्या निलं सम्यग्बाह्यवायुमन्तनत्वा । वेद्यम् षट्त्रिंशत्तत्त्वानि वक्ष्यमाणानि संमुद्रय एकीकृत्य । अङ्गुष्ठेन तन्मन्त्रेण नम इत्यनेनेत्यर्थः । विलय मिति घनघृतं अग्निसंयोगेन द्रवीभूतम् । यद्यपि लयशब्दः नाशः, तथाऽपि 'वि' इत्युपसर्गेण द्रवत्वं अर्थ:, "आज्यं विलाप्य” इति प्रयोगात्, " तप्तायोद्रववत्" इत्यग्रिमसूत्रानुरोधाच्च ॥ १० ॥
अर्घ्यसादनम्
अथार्थसादनमाह---
गोमयेनोपलिप्तचतुरश्रभूतले प्रवहत्पार्श्वकरकृतया 'मत्स्यमुद्रया दिव्यगन्धाम्बुयुतया भूव्योमवायुवह्निमण्डलानि कृत्वा ॥ ११ ॥
प्रवहत्पार्श्वे ति येन नासापुटेन वायुर्वहति तत्पार्श्वकरमधः कृत्वा रचितमत्स्यमुद्रयेत्यर्थः । दिव्यः श्रेष्ठः । भूमण्ड लं चतुरश्रं, श्रीयन्त्रलेखने चतुर भूबिम्बं क्षोणीपुरमिति भूरिप्रयोगात् । व्योम मण्डलं वृत्तं, शून्यात्मकवृत् ज्योतिश्शास्त्रादौ सङ्ख्यासङ्केते आकाशशब्दस्य भूरिप्रयोगात्, शून्यस्य वृत्तरूपत्वात् । वायुमण्डलं षट्कोणं, तन्त्रसारे भूशुद्धिप्रकरणे ----
धूम्रवर्ण ततो वायुबीजं षड्बिन्दुलाञ्छितम् । षट्कोणं
इति विशुद्धेश्वरतन्त्रवचनस्योदाहृतत्वात् । वह्निमण्डलं त्रिकोणम् “रक्तवर्ण वह्निबीजं त्रिकोणकं " इति तत्रैव सत्त्वात् । इत्थं च चतुरश्रवृत्तषट्कोणत्रिकोणानीत्यर्थः ॥ ११ ॥
ततः शेषधर्मानतिदिशति
श्यामावत् सामान्यविशेषायें सादयेत् ॥ १२ ॥