________________
२८२
परशुरामकल्पसूत्रम्
देशिकयजनम्
उदग्वदनो मौनी भूषितविग्रहो मूलपूर्वेण देशिकमनुना मस्तके देशिकमिष्टा ॥ ७ ॥
उदग्वदन इति पराप्रकरणे नियमविधिः 1 भूषित विग्रहः वस्त्रभूषणादिभिः । मूलं पूर्वं यस्य ईदृशेन दे शिक मनुना दीक्षाप्रकरणस्थगुरुपादुकामन्त्रेण देशिकं गुरुम् ॥ ७ ॥
विघ्नोत्सारणम् वामपाणिघातैः छोटिकात्रयेण च पाताळादिगतान् भेदावभासिनो विघ्न्नानुत्सार्य ॥ ८ ॥
वामपाणिघातैः वामपादपृष्ठभाग घातैः । बहुवचनेन त्रित्वमेव प्रथमोपस्थितं बुध्यते । छो टिका अगुळिद्वयसंयोगजनितो ध्वनिः तासां च त्रयेण । पाताळा दि पदेन अन्तरिक्षस्य दिवश्च परिग्रहः, चकारस्वारस्यात् । पाताळादित्रये अभिघातछोटिकयोः प्रत्येकमन्वयः । अनुक्तास्त्रग्रहणं वा । उत्सार्य दूरीकृत्य ॥ ८ ॥
अङ्गन्यासः
शिरोमुखहृन्मूलसर्वाङ्गेषु मूलं विन्यस्य ॥ ९ ॥
अत्र शिरो मुखादिषु प्रत्यवयवं मूलावृत्तिः, सर्वाङ्गे सकृत् । मूले मूलाधारे । पराप्रकरणे एतावानेव न्यासः, अधिकानुक्तेः ॥ ९ ॥
चिनौ सर्वतत्त्वविलापनम्
काकचञ्चपुटाकृतिना मुखेन संचोष्यानिलं सप्तविंशतिशो मूलं जप्त्वा वेद्यं नाभौ संमुद्रय पुनः सप्तविंशतिशो जप्त्वा अङ्गुष्ठेन शिखां बद्ध्वा