________________
अष्टमः खण्डः पराक्रमः
२८१
स्नात इति नाम्ना श्रीक्रमोक्तस्त्रानधर्मातिदेशः । अत्र मूलस्थाने प्रकृतमूलम् । एतावान् विशेषः । अथाचमनमाह -- त्रिराचम्य त्रिवारं सौः वर्णेन एकैकवारमभिमन्त्रितजलपानं कृत्वेत्यर्थः 1 सौः वर्णस्य तृतीयाश्रुत्या आचमनाङ्गत्वे सिद्धे प्रतिप्रधानमङ्गावृत्तिः " इति न्यायेन मन्त्रावृत्तिर्लभ्यते । एवमेव द्विः परिमृज्य इत्यादिषु सर्वत्र मूलेनेत्यस्यानुषज्यान्वयः, योग्यत्वात् । द्विः परिमार्जनं ओष्ठयोः, ब्रह्मयज्ञप्रकरणे तथा दृष्टत्वात् । तथा सकृदुपस्पृश्य इत्यत्रापि जलमिति, ब्रह्मयज्ञे दर्शनात् । अवमृश्य स्पृष्ट्वा । एवं त्रिराचम्येति अवमृश्येत्यन्तं क्रियाकलापः आचमनमेकम् । अस्मिन् तन्त्रे यत्राचमनं तत्रेत्थं कार्यम् तत्तत्प्रकरणं तत्तन्मूलमात्रयोजनं विशेषः । न तु तन्त्रान्तरस्थं विप्रकर्षात् । प्रकृते अस्यैवाचमनस्य त्रिरभ्यासेो विधीयते ॥ ५ ॥
आसनविधिः
66
"
अथासनविधिमाह--..
ऊर्णामृदु शुचितममासनं सौवर्णसूर्यजपाभिमतिं मूलमन्त्रोक्षितमधिष्ठाय ॥ ६ ॥
ऊर्णा एडकलोमविकार: । मृदुत्वविधानात् दृष्टं फलं स्वस्थान्तःकरणं कठिनसंयोगाभावेन । सौवर्णः तद्युक्तो यः सूर्यः विसर्गः सौः । विसर्गस्य सूर्यपदवाच्यत्वे प्रमाणं देवीभागवते बालामन्त्रवासनाकथनावसरोक्तं-
बिन्दुद्वयं हिमांशुः स्यात् विसर्गस्तरणिस्तथा ।
इति वाक्यं ज्ञेयम् । सौः अनेनाभिमन्त्रितं मूलेन तेनैवो क्षितं आसनं इति शेषः । अधिष्ठाय स्थित्वा ॥
एतेन निबन्धे सूर्यशब्दस्य सङ्ख्यावाचकत्वमङ्गीकृत्य मूलमन्त्रेण द्वादशवारमभिमन्त्रितेनेति लेख: परास्त:; विसर्गप्रापकपदाभावेन निबन्धे विसर्गान्तपाठस्य सन्दर्भविरोधात् 1 व्याख्यानसमये नानादेशसमुद्भवानि षोडशसङ्ख्याकानि पुस्तकानि संपादितानि । एकस्मिन्नपि पुस्तके विसर्गान्तपाठाभावात् तथा पाठप्रतिपादनमप्यशुद्धम् ॥ ६ ॥
36