________________
२८
परशुरामकल्पसूत्रम् तृतीयलक्षे संप्राप्ते द्रावयन्ति सुराङ्गनाः ॥ इत्युक्तम् ।। स्वर्गभूपाताळादिवासिलोकवशीकरणकामो नवलक्षं, पूर्ववचने तथा श्रुतत्वात् इत्थं च एकलक्षात्मकं मन्त्रसिद्धयर्थ पुरश्चरणं विधाय मन्त्रसिद्धिं संपाद्य पश्चा तत्तत्कामनायां सत्यां तत्तत्संख्याकं कुर्यात् । अत एव ज्ञानार्णवे एकलक्षमार नवलक्षपर्यन्तं एकद्विव्यादिलक्षसंख्यानां फलं पृथगेवोक्तम् । ग्रन्थविस्तरभया न लिखितम् ॥
पञ्चदश्यादिविद्यासु मन्त्रशोधनानपेक्षा यद्यपि सिद्धारिचक्रादिमन्त्रशोधने[न] तन्त्रान्तरे बहुशोऽस्ति, तथाऽपि
नृसिंहार्कवराहाणां प्रासादप्रणवस्य च ।।
सपिण्डाक्षरमन्त्राणां सिद्धादीन् 'नैव शोधयेत् ॥ इति सौरतन्त्रे । डामरे----
पञ्चदशी षोडशी च तथा सर्वाङ्गसुन्दरीम् । चण्डालेभ्योऽपि गृह्णीयात् यदि भाग्येन लभ्यते ॥ न शुद्धिं चिन्तयेदत्र भावशुद्धेर्हि शुद्धता ।
नात्र शुद्धयाद्यपेक्षाऽस्ति नारिमित्रादिशोधनम् ॥ इति ॥ तन्त्रराजे च
नित्यानां त्रैपुराणां च नावेक्ष्यास्त्वंशकादयः ॥ इति ॥ प्रकृते तद्विचारस्याप्रयोजकत्वात् न लिखितम् ॥
____ इयं पूर्वोक्तसङ्ख्या पुरश्चरणे कृतयुगे । “ कलौ चतुर्गुणं प्रोक्तं" वचनात् कलियुगे चतुर्गुणम् । इत्यलं पल्लवितेन ॥ ३७ ॥
।
.
पूजाशेषकृत्यम् एवं प्रसंगात् पुरश्चरणमुक्त्वा पूजाशेषकृत्यमाह'न विचारयेत्—बर.
१ नचामित्रादिदूषणम्-मं, १२.