________________
सप्तमः खण्डः–वाराहीक्रमः
२७७ चरमखण्डे श्रीविद्याजपकालस्य प्राह इत्यनेनोक्तत्वाच्च सूत्रकाराभिमतं पुरश्चरणमिति ज्ञायते ॥
कादिहादिभेदेन श्रीविद्योपास्तिभेदः तत्र श्रीविद्योपास्तिः कादिहादिभेदेन द्विधा । तत्र हादिविद्योपास्तिः लक्षसङ्ख्याजपरूपा, श्रीचक्रसंहितायां हादिविद्यामुद्धृत्य
लक्षमेकमिदं जप्त्वा सर्वपापहरो भवेत् । इत्युक्तत्वात् । कादिविद्यायास्तु लक्षं त्रिलक्षं नवलक्षं इति त्रिप्रकारं शास्त्रमुपलभ्यते । एकलक्षसङ्ख्या परमानन्दतन्त्रे
तत्र स्थित्वा जपेल्लक्षं हविष्याशी समाहितः ।
मन्त्रसाधनकामस्तु . . . . . . . इति ॥ त्रिलक्षजपस्तु ज्ञानार्णवे
तदा लक्षत्रयं साधुः सर्वपापनिकृन्तनम् । एवं लक्षत्रयं जप्त्वा व्रतस्थः स्वस्थमानसः ॥
संक्षोभयति भूलोकस्वर्लोकतलवासिनः ॥ इति ॥ ___ दक्षिणामूर्तिसंहितायाम्
लक्षमानं जपेत् देवि नियतः संयतेन्द्रियः ।
तद्दशांशेन होमः स्यात् कुसुमैर्ब्रह्मवृक्षजैः ॥ इति ॥ नवलक्षजपोऽपि तत्रैव
अथवा नवलक्षं तु जपेद्विद्यां समाहितः ।
क्षोभयेत् स्वर्गभूलोकपाताळतलवासिनः ॥ इति ॥ अत्रेयं व्यवस्था । केवलं मन्त्रसिद्धिकामस्य लक्षात्मकमेव पुरश्चरणम् , पूर्ववचने “मन्त्रसाधनकामस्तु" इति श्रवणात् । सर्वक्षोभणकामः त्रिलक्षं, पूर्ववचनेन “संक्षोभयति भूलोक" इति श्रवणात् । अत एव ज्ञानार्णवे-: