SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २७६ परशुरामकल्पसूत्रम् जपकालिकनैमित्तिक क्रियाः अथ जपप्रारम्भानन्तरं निमित्ते सति नैमित्तिकाः याः क्रियाः सन्ति ता यथा 1 मूत्रोत्सर्गे प्राणायामान्तं मलोत्सर्गे तावत् स्नानं चेति तात्पर्यम् । अथासने विशेष उच्यते । तदुक्तं योगिनीतन्त्रे— उद्गारजृम्भाहिक्कानां जपमध्ये तु संभवे । जपेच्च्चतुस्तारकं तु प्राणायाममथापि वा ॥ निद्राऽपानोद्गारयोगे तन्मालां तु परित्यजेत् । आचम्य विन्यसेदङ्गं मालास्रंसे तु निद्रया ॥ जपेदष्टोत्तरशतं तदा त्रोटे सहस्रकम् । आजानुकूर्परान्तं तु प्रक्षाळ्य करपादयोः || कृत्वाऽऽचमनकं देवि त्रिधा प्राणस्य धारणम् । मूत्रोत्सर्गे मलोत्सर्गे स्नानं चापि विधीयते ॥ विस्मृतौ जपसङ्ख्यायाः पुनरारम्भ एव च ॥ इति ॥ छिद्रयुक्तानि दग्धानि जीर्णानि स्फुटितानि च । परकीयान्यासनानि वर्जयेत् जपकर्मणि ॥ हरिणव्यात्रयोश्चर्म कुशवेत्रभवं कटम् । कार्पासपट्टोर्णवस्त्रमच्छिद्रास्फुटितं भवेत् ॥ त्रयं वा द्वयमेकं वा भिन्नजातीयकं स्मृतम् ॥ इति ॥ एवमन्येऽपि धर्माः अनुष्ठितुं समर्थेन परमानन्दतन्त्रात् अवगन्तव्याः ॥ एतद्धर्माणां श्रीविद्यापुरश्चरणेऽपि ग्राह्यत्वम् इत्थं वाराहीपुरश्चरणपदेन सूचिता धर्मा निरूपिताः । श्रीविद्याया अपि पुरश्चरणे इमान् धर्मान् गृहीत्वा श्रेयस्कामोऽनुतिष्ठेत्, पुरश्चरणस्य पूजादि - प्रयोगबहिर्भूतस्यासूचितस्यापि सहस्रनामपाठादिवत् श्रेयस्कामेन गृहीतुं " तथाऽन्येष्वतिदूषितं " इति ' त्रिपुरार्णववचनाच्च । किंच त्रिपुरा रहस्य वचनोदाहरणरूपत्वाच्च -- अ, ब २. शक्यत्वात्, 1
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy