________________
सप्तमः खण्डः – वाराही क्रमः
अनन्तमूर्ध्नि देव्येषा धरा यस्मात् प्रतिष्ठिता । तेन सत्येनावतु मामनन्तः सर्वरक्षकः ॥ नमः स्वप्नाधिपतये रुद्रायामिततेजसे । इष्टार्थान् सम्यगाचक्ष्व नाशयानिष्टसूचकान् ॥ रुद्रमन्त्रं त्रिधा जप्त्वा विन्यस्याङ्गेषु सुस्वपेत् ॥ इति ॥
रुद्रमन्त्रोऽपि तत्रैवोक्त:
तारश्च हृदयं वै च स्वप्नाधिपतये ततः ।
रुद्राय हृदयं मूर्ध्ना नृपवर्णः स्मृतो मनुः ॥ इति ॥
“ ॐ नमः स्वप्नाधिपतये रुद्राय नमः स्वाहा " इति षोडशाक्षरो मन्त्रः ॥
हविष्यपदार्थगणम्
. पूर्व हविष्याशननियम उक्तः । तत्र हविष्याणि तन्त्रे
त्रीहिजास्तण्डुलाश्चैव यवाः कृष्णतिलास्तथा । मुद्रा नीवारकाचापि षष्टिकाश्च महेश्वरि || सैन्धवं चापि सामुद्रं लवणं द्विविधं स्मृतम् । गव्यं वृतं पयश्चैव दधि निस्सृतसारकम् ॥ ऐक्षवं सर्वमेव स्यात् गुडवर्ज महेश्वरि । फलं तु नारिकेळं स्यात् कदळी लवली तथा ॥ तिन्त्रिण्यम्रफलं तद्वत् दाडिमस्य फलं तथा । आर्द्रकं नागरं धात्री तथैव च हरीतकी ॥
पटोल वास्तुशाकं च कन्दं स्यात्तु पवित्रकम् । निवेदितं तथाऽन्यद्वा चार्थप्राप्तं न सन्त्यजेत् ॥ इति ॥
२७५
वास्तुशाकं महाराष्ट्रभाषया चाकवत् इति प्रसिद्धम् । कन्दे अन्यस्मिंश्च पवित्रकमित्य-, स्यान्वयः । तथा च पवित्रं कन्दं, उक्तादन्यत् यत् पवित्रं अनिच्छया प्राप्तं तदपि हविष्ये ग्राह्यमिति भावः ॥
1 सर्वभक्ष - श्री. म.
2