________________
२७४
परशुरामकल्पसूत्रम् अनेन प्रार्थनं, ततो नृसिंहबीजजपः । मन्त्रराजः कः ? नृसिंहबीजं किम् ? इति । तदुक्तं तन्त्रे ऊर्ध्वामनाये
उग्रं वीरं चाथ महाविष्णुं चाथ ज्वलं च तम् । सर्वतश्च मुखं पश्चात् नृसिंहं भीषणं तथा ॥ भद्रं वै मृत्युमृत्युं वै नमाम्यहं रदनाक्षरः । मन्त्रराज इति ख्यातः सर्वत्रायं सुगोपितः ॥ नृसिंहबीजं देवेशि वक्ष्यामि प्राणवल्लमे ॥
पृथ्वी स्पर्शयुता ज्वाला बिन्द्राव्येति समीरितम् ॥ इति ॥ नृसिंहमन्त्रोद्धारे च अथ पश्चात् तथा वै इत्यपहाय द्वात्रिंशदक्षरो मन्त्रः । पृथ्वी-क्ष, स्पर्शः-र, ज्वाला-औ, बिन्दुयोगे-ौं इति ज्ञेयम् । अथ स्वप्नफलकालेयत्ता तत्रैव---.
वर्षेण च तदर्धेन तदर्धेन च मासतः । आधयामादितो ज्ञेयं फलं यामचतुष्टये ॥ इति ॥
मनुजापिशयनधर्माः जपस्थाने शयनं कर्तव्यमित्युक्तम् । तत्र धर्माः
भुक्त्वैव तु जपस्थानसमीपे शयनं चरेत् ।
मूलेन सप्ताभिमन्त्र्य प्रार्थयेत् देवतागणम् ॥ अत्र शयनं आस्तरणं तदभिमन्त्रणं मूलेन
अत्र देवास्त्रयस्त्रिंशदाशापाला मरुद्गणाः । रक्षन्तु मां मन्त्रसिद्धयै यतन्तं विबुधेश्वराः ॥ महाविद्यासाधकस्य भूतबेताळकादयः । विघ्नं कुर्वन्ति सततं तेभ्यो रक्षतु मां शिवः ॥ भैरवा मातृसहिताः कोटिशः संचरन्ति वै । सिद्धिनाशाय लोकस्य तेभ्यो रक्षतु शंकरः ॥ सुप्तं सर्पादिरूपेण साधकं भीषयन्ति वै । सिद्धिलोपाय देवाद्याः शूलपाणिस्ततोऽवतु ॥