________________
सप्तमः खण्डः-वाराहीक्रमः
विमानगमनं मद्यपानं मांसस्य भक्षणम् । विष्ठालेपं रक्तलेपं दधिलेपं च भक्षणम् ॥ राज्याभिषेकं रत्नादिभूषणं चैवमादिकम् । हर्षहेतुकरं चित्रं स्वप्नं विद्याच्छुभावहम् ।। एतन्निवेदनविधिं शृणु वक्ष्यामि सुन्दरि । प्रातःस्नानं च सन्ध्याऽऽदि विधाय गुरुसन्निधौ । तत्समानसमीपे वा देवतानिकटेऽथवा । नत्वा कृताञ्जलि: सर्व वाच्यं दृष्टवदेव हि ।।
शुभस्वप्ने पुनःस्वापो न कर्तव्यः कदाचन ॥ इति ॥ अथ पुरश्चरणे अनुष्ठीयमाने अशुभस्वप्नानि तत्रैव
अथाशुभांस्तु स्वप्नान् वै प्रवक्ष्यामि शृणु प्रिये । काककङ्कोलूकगृध्रान् खरमार्जारमाहिषान् ॥ चण्डाळं कृष्णपुरुषं स्त्रियं वा विकटां तथा । शून्यगर्ते शुष्कवृक्षं नदीपुष्करवापिकाः ॥ तैलाभ्यङ्गं कण्टकयुग्वृक्षं प्रासादभञ्जनम् । उन्मत्ततां नग्नतां च भीततां स्वात्मनस्तथा ॥ सङ्कटेन समायोगं पश्यन् शान्ति समाचरेत् ।। इति ।
__ अशुभस्वप्नशान्तिः ___ एवं अशुभे शान्तिरुक्ता तत्रैव
दर्शने चाशुभस्याथ शान्ति वक्ष्यामि संशृणु । मन्त्रराजं पठित्वा तु नृसिंहं प्रार्थ्य वै जपेत् ॥
नृसिंहबीजं देवेशि शुचिर्भूत्वा युदङ्मुखः । प्रथमं मन्त्रराजजपः, ततः
नृसिंहाय नमो दोषान् जहि दुःस्वप्नजान् मम । यतः स्वमाधिपस्त्वं वै सर्वेषां फलदो मतः ॥