________________
२७२
परशुरामकल्पसूत्रम्
बोधायन:
सिद्धेस्तु त्रीणि चिह्नानि दाता भोक्ता ह्ययाचकः ॥ इति ॥ प्रपञ्चसारे
ततोऽस्य प्रत्ययास्त्वेवं जायन्ते जपतो मनुम् ।
इत्यारभ्य
अर्काभस्तेजसाऽसौ भवति नलिनजा सन्ततं किंकरी स्या
द्रोगा नश्यन्ति दृष्ट्वा तमथ च धनधान्याकुलं तत्समीपम् । देवा नित्यं नमोऽस्मै विदधति फणिनो नैव दंशन्ति पुत्राः संपन्नाः स्युः सपुत्रास्तनुविपदि परं धाम विष्णोः स भूयायात् ।।
शुभाशुभस्वप्नाः
परमानन्दतन्त्रेऽपि
साधकस्य तु सिद्धेर्वं चिह्नानि शृणु शङ्करि । आचार्यदर्शनं चित्तप्रसादोऽल्पाशनं तथा ॥ अल्पनिद्रा मनोल्लासः सिद्धिचिह्नानि शङ्करि । अथ स्वप्नान् प्रवक्ष्यामि शुभांश्चैव तथेतरान् ।। उपास्य देवतारूपं प्रासादं स्फटिकोपमम् । गुरुप्रियजनं पूर्णचन्द्र सूर्य सरित्पतिम् ॥ पूर्णा नदी तटाकं च प्रफुल्लकमलाकरम् । यन्त्रराजं महादेवलिङ्गं हैरण्यपर्वतम् ॥ दृष्ट्वा सिद्धिस्तथा नौकातरणं स्वस्य वै जयः । ज्वलदग्निं हंसचक्रवाकसारसबर्हिणः । अश्वयुग्रथमध्यस्थं श्वेतच्छत्रादिभूषणम् । दीपपङ्क्ति श्वेतमाल्यं दिव्यस्त्रीणां कदम्बकम् ॥ फुल्लवृक्षं चारुमांसं खे यानमभयं तथा । श्वेताश्ववृषभौ मत्तवारणं तेषु रोहणम् ॥