________________
>
सप्तमः खण्डः - वाराहीक्रमः
नोद्वेगं साधको याति कर्मणा मनसा यदि । तृतीयवत्सरादूर्ध्वं राजानश्च महीभृतः ॥ प्रार्थयन्तेऽनुरोधेन गर्विता अपि मानिनः । प्रसादः क्रियतां नाथ ममोद्धरणकारणम् ॥ प्रज्वलन्तं च पश्यन्ति तेजसा विभवेन च । अतस्ते मुनिशार्दूल निष्ठुरं वक्तुमक्षमाः ॥ नवमाद्वत्सरादूर्ध्वं स्वयं सिध्यति मन्त्रराट् । नानाश्चर्याणि हृदये मन्त्रसिद्धिमयानि वै ॥ अत्यानन्दप्रदान्याशु प्रत्यक्षेण बहिस्तथा । जस्तु क्षणं विप्र क्षणमस्ति प्रहर्षितः || क्षणं दुन्दुभिनिर्घोषं शृणोत्येवान्तरिक्षतः । क्षणं च मधुरं वाद्यं नानागीतसमन्वितम् ॥ आजिघ्रति क्षणं गन्धान् कर्पूरमृगनाभिजान् । उत्पतन्तं क्षणं वापि पश्यत्यात्मानमात्मना ॥ चन्द्रार्ककिरणाकीर्णे क्षणमालोकयेन्नभः । तारकाणि विचित्राणि योगिनो नभसि स्थितान् ॥ क्षणं मेघोदयं पश्येत् क्षणं रात्रिं दिने सति । रात्रौ च दिवसालोकं ससूर्य क्षणमीक्षते ॥ 'बलेन परिपूर्णश्च तेजसा भास्करोपमः । पूर्णेन्दुसदृशः कान्त्या गमने विहगोपमः || स्वल्पाशनेनाशकृता बहुनाऽपि न खिद्यते विण्मूत्रयोरप्यल्पत्वं भवेन्निद्राजयस्तथा ॥ जपध्यानगतो मन्त्री न खेदमधिगच्छति । विना भोजनपानाभ्यां पक्षमासादिकं मुने ॥ इत्येवमादिभिश्चिह्नैः महाविस्मयकारिभिः । प्रवृत्तैः संप्रबोद्धव्यं प्रसन्नो मन्त्रराडिति ॥ 1 जपेन - श्री.
२७१