________________
ܘܙܪ
परशुरामकल्पसूत्रम्
प्रीत्यर्थं दिनसङ्ख्यां च जपसङ्ख्यां समुल्लिखन् । पञ्चाङ्गं पुरश्चरणं करिष्य इति वै वदेत् ॥ इति ॥
द्वित्रिकालपूजायां विशेषो योगिनीतन्त्रे—
द्वित्रिकालार्चने देवि उपचारांस्तथाऽऽवृतम् । आवर्तयेद्धोममपि चान्यत् सर्वे सकृत् भवेत् ॥ इति ॥
जपनियमाः मनोनिग्रहसाध्याः बहवः सन्ति तन्त्रेषु । तेषामनुष्ठाने मनोनिग्रहस्य मुख्यतया तत्साधयितुरिदानीमभावात् तादृशं जपाङ्गधर्मानुष्ठानमपि संप्रति कालेऽननुष्ठेयमिति ते धर्माः आभ्यन्तराः न लिख्यन्ते । यद्यनुष्ठानसमर्थास्तर्हि तन्त्रेभ्यो जानन्तु ॥
तद्दशांशं जपदशांशम् । ता पिञ्छ कुसुमैः तमालकुसुमैः, 66 कालस्कन्धस्तमालः स्यात् तापिञ्छोऽप्यथ सिन्धुकः " इत्यमरः । मन्त्रं साधयेत् इत्यनेन केवललक्षजपे नैव पर्याप्तिः । किं तु तन्त्रान्तरोक्तानि यानि चिह्नानि मन्त्रसिद्धि - सूचकानि, तावत्पर्यन्तमनुष्ठानं कुर्यादिति ज्ञापितम् ॥
1
मन्त्रसिद्धिचिह्नानि
मन्त्रसिद्धिचिह्नानि तन्त्रान्तरेषु । तत्रादौ वक्रतुण्डकल्पे
चित्तप्रसादो मनसश्च तुष्टिरल्पाशिता 'स्वप्नपराङ्मुखत्वम् ।
स्वप्नेषु यानाद्युपलम्भनं तु सिद्धस्य चिह्नानि भवन्ति सद्यः ॥ इति ॥
भैरवीतन्त्रे—
ज्योतिः पश्यति सर्वत्र शरीरं वा प्रकाशयुक् । निजं शरीरमथवा देवतामयमेव हि ॥ इति ॥
नारदपाञ्चरात्रे
मन्त्राराधनसक्तस्य प्रथमं वत्सरत्रयम् ।
जायन्ते बहवो विघ्नाः नियमस्थस्य नारद ||
चित्तप—श्री.