________________
सप्तम: खण्ड: -- वाराहीक्रमः
इत्यादिना । किं च द्रव्यमाने विशेषो दक्षिणामूर्तिसंहितायाम्
कस्तूरीकुङ्कुमशशिगुञ्जामात्र हुनेच्छिवे ॥ इति ॥
तर्पणे विशेषो योगिनीतन्त्रे
तत्रैव —
नद्यादौ वा शुभे तोये पात्रस्थे वाऽपि देवताम् । आवाह्य मूलमनुना तर्पयामीति तर्पयेत् ॥ इति ॥
देवतीर्थेनाञ्जलिना जलदानं तु तर्पणम् । मार्जनं तु कुशैर्वाऽपि निषिञ्चेत् तत्त्वमुद्रया ॥ इति ॥
स्थाने विशेषो योगिनीतन्त्रे-
प्रत्यग्भिन्नमुखे नन्दियुते हानि: शिवालये ॥ इति ॥
किंच तत्रैव
अप्रसन्नं मनो यत्र तत्रोत्तमतमेऽपि च । मन्त्रसिद्धिर्न भवति यथोक्तानुष्ठितावपि ॥ इति ॥
जपसङ्ख्यायां विशेषः एकवीराकल्पे -
भावनारहितानां तु क्षुद्राणां क्षुद्रचेतसाम् । चतुर्गुणो जपः प्रोक्तः सिद्धये नान्यथा भवेत् ॥ इति ॥
योगिनीतन्त्रेऽपि—
असंयतात्मनामुक्तो जपः षोडशधा भवेत् ॥ इति ॥
जपे गौणकालो योगिनीतन्त्रे
सङ्कटे तु दिनस्यान्तं तृतीयांशं परित्यजेत् ॥ इति ॥
पुरश्चरणसङ्कल्प उक्तो योगिनीतन्त्रे
तिथ्याद्युक्त्वा गोत्रनामद्वयमुल्लिख्य शङ्कर । श्रीविद्यासिद्धिवैद्वारा महात्रिपुरसुन्दरी ॥
२६९