SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २६८ 1 परशुरामकल्पसूत्रम् मौनेन भोजनं स्नानमप्रतिग्रह एव च । क्षौरमुष्णजलस्नानगीतवाद्यनिषेवणम् ॥ अनृतुस्त्रीसङ्गमं च कञ्चुकोष्णीषधारणम् । अन्धकारे च शयनं वर्जयेत् साधकोत्तमः || अन्यानपि यथाशास्त्रं नियमानाचरेत् प्रिये । नियमांस्तु परित्यज्य य इच्छेन्मन्त्रसाधनम् ॥ चण्डभानुं समाश्रित्य शीतलं वाञ्छति ध्रुवम् । स्त्रीणां तथा रोगिणां च वृद्धानामपि सुन्दरि ॥ यथाशक्ति भवेदेतन्नियमानां तु धारणम् । आदौ गुरुं ब्राह्मणांश्च देवतां प्रणमेत् बुधः ॥ सङ्कल्प्य गणनाथाच पुण्याहं वाचयेत् तथा । गुर्वाद्याज्ञां समादाय जपं कुर्यात्तु भक्तितः ॥ विन्यस्य मूलविद्यां तु प्राणायामत्रयं चरेत् । सामान्यकलशोदेन पञ्चतिक्तं निवेदयेत् ॥ मूलाभिमन्त्रितं तच्च मुखे संस्थाप्य साधकः । गृहीत्वा वामपाणौ तु पात्रस्थां जपमालिकाम् || कलशोदकविप्रुभिः प्रोक्ष्य संप्रार्थच्छ । ॐ माले त्वं महामाये सर्वशक्तिस्वरूपिणि ॥ चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव । संपूज्य मन्त्रयोगेन गृहीत्वा दक्षहस्त ॥ 'मायासिद्ध्यै च हृदयं पञ्चार्णः पूजने मनुः । अविघ्नं कुरु पश्चाद्वै मे मालेति शिरस्तथा ॥ गमाद्यं ग्रहणे चैव रुद्र वर्णः स्मृतो मनुः । मूर्ध्नि संस्थाप्य मालां तु मातृशृङ्गाट' कं बिले || तन्मयीं मूलविद्यां तु मुखे हृदि पराम्बिकाम् । तद्वाच्यां तन्मयं नाथमाज्ञायां तु विभावयेत् ॥ मया - श्री. 2 • वर्णयुतो - श्री. 3 केऽम्बिके—श्री.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy