________________
सप्तमः खण्डः --- वाराहीक्रमः
तत्र स्थित्वा जपेल्लक्षं हविष्याशी समाहितः । मन्त्रसाधन कामस्तु युगसङ्ख्याकलक्षकम् ॥ आदौ शुभदिने केशान् वापयित्वा महेश्वरि । अयुतं प्रजपेत् तत्र तद्गायत्रीं समाहितः ॥ तेनाधिकारी भवति पुरश्चरणसाधने । तदादिनियमं कुर्यात् प्रयत्नेन तु साधकः ॥ शुद्धं स्वच्छं तथा वासः स्थानमङ्गं च मूर्धजाः । सुगन्धामलकैः केशशोधनं बन्धनं तथा ॥ पञ्चतिक्तमुखो निद्राजृम्भालस्यादिवर्जितः । निष्ठीवनं भयं नीचस्पर्शभाषणमेव च ॥ अकार्यभाषणं क्रोधं चित्तचाञ्चल्यमेव च । वर्जयेच्च महेशानि सदा नियतमानसः ॥ आहारस्तु फलं क्षीरं मूलं तद्वद्भविष्यकम् । भुञ्जीयाद्रात्रिसमये शयनं स्थण्डिलेऽथवा ॥ कुशासनेऽजिने श्वेतकम्बळे धौतवाससि । जपस्थानसमीपे तु शयनं प्रत्यहं भवेत् ॥ ब्रह्मचर्यं सदा कुर्यात् कायवाङ्मानसैः शिवे । त्रिकालं वा द्विकालं वा स्नानं स्यात् प्रातरेव वा ॥ त्रिकालं वा द्विकालं वा सकृद्वा देवताऽर्चनम् । आमध्याह्नं च देवेशि जपं कुर्यात् तथाऽन्वहम् ॥ मूलाभिमन्त्ररहितं न पिबेन्न च भक्षयेत् । कदळीमधुपर्णेषु पालाशे मध्यवर्जिते ॥ हितं मितं च भुञ्जीयात् देवतायै निवेदितम् । एलालवङ्गकर्पूरजातीपत्रफलात्मकम् ॥ पञ्चतिक्तं तेन युतं ताम्बूलं निशि भक्षयेत् । न वदेदप्रियं मिथ्यां बहुभाषणमेव च ॥ अर्कच्छायां स्नुहिच्छायां करञ्जस्यापि सुन्दरि । .नैवाक्रमेद्विभीतस्य छायां चापि क्वचिच्छिवे ॥
A
२.६७