________________
२६६
परशुरामकल्पसूत्रम्
छायाछत्रगणं चेति क्रमात् संपूजयेत् बुधः । दीपस्थानं तत्र देवि जानन् संसाधयेन्मनून् ॥ तत्कूर्मस्य मुखं देवि दीपस्थानं प्रकीर्तितम् । दीप्यन्ते मनवो यत्र दीपस्थानं ततस्तु तत् ॥ गृहनामाद्यक्षरं तु यत्र कोष्ठे स्थितं शिवे । तत्कूर्ममुखमुद्दिष्टं निर्विघ्नं तत्र सिध्यति ॥ मध्यं पृष्ठं तस्य 'चाथ पुच्छं पार्श्वेषु वै क्रमात् । हस्तयुग्मं पादयुग्मं पार्श्वयुग्मं प्रकीर्तितम् ॥ मुखे पृष्ठे चोत्तमं स्यात् मध्यमं हस्तयुग्मके । अन्यत्र तु निषिद्धं स्यादेष देवि त्रिधा स्थितः ॥ देशकूर्म ग्रामकूर्म गृहकूर्ममितीश्वरि । भावयेत् तत्र तत्रैव प्रोक्तरीत्या विचिन्तयेत् ॥ मुख्यं फलं त्रयाणां तु लाभः स्यादेकमेव वा । तत्रोक्तपरकूर्म तु पूजयेत् तत्र वै जपेत् ॥ कुरुक्षेत्रे प्रयागे च महाकाले तथैव च । पर्वते च शुभारण्ये समुद्रस्योपकूलके ॥ काश्यां च चिन्तनं नैव दीपस्थानस्य शङ्करि । निजे गृहे यथोक्तं स्यात् गोष्ठेऽब्वेस्तीर एव च ।। द्विगुणं कुलवृक्षाधः पर्वताग्रे त्रिधा फलम् । अब्धिसंयुक्तरित्तीरे पुण्यस्रोतस्तटे तथा ॥ स्वयं देवगेहे च शतधा फलमुच्यते । पश्चिमाभिमुखे नन्दिशून्ये त्वेव शिवालये ॥ तथा नार्मदलिङ्गस्य चालये गुरुसन्निधौ । अनन्तसङ्ख्यं तु फलं मनः कान्तिविशेषतः ॥ दीपनाथस्य मन्त्राणामाद्यमेकाक्षरं यथा । तथाऽरिमन्त्रा अपि च सिध्यन्ति दृढमीश्वरि ॥ 1. चाधः -- ब२. . 2 त्वेवं— श्री.