________________
सप्तमः खण्ड:-वाराहीक्रमः स्वमूर्ध्नि देवतां ध्यात्वा तीर्थमावाह्य 'सुन्दरि।। मार्जयेन्मूलमनुना मार्जयामीति वै 'शिवे ॥ ब्राह्मणान् विविधैर्देवि उपचारैस्तु पूजयेत् । आदौ भूमिग्रहं कुर्यात् पूर्वस्मिन् दिवसे शिवे ॥ सङ्कल्प्यामुकमन्त्रस्य पुरश्चरणसिद्धये । मयेयं गृह्यते भूमिमन्त्रो मे सिध्यतामिति ॥ ग्रामे क्रोशमितं तद्वन्नगरे द्विगुणं भवेत् । अन्यत्र तु यथेच्छं स्यात् पुण्यारण्यादिषु प्रिये ॥ तद्दिक्षु क्षीरवृक्षोत्थान् कीलान् वैतस्तिकान् शिवे । मूलास्त्रेणाभिमन्त्र्याथ पूर्वादिदशदिक्षु तान् ।। निखनेत् तेषु गन्धाद्यैरस्त्रेणाभ्यर्च्य दिक्पतीन् । ' माषभक्तबलिं दद्यात् तत्तन्मन्त्रेण मन्त्रवित् ॥ एहीन्द्र पूर्व दिग्भागे पूजितो वस कीलके । मां पालय ततो निर्विघ्नेन कार्य च साधय ॥ पुनः साधय वै माष ततो भक्तबलिं तथा । गृहद्वयं ततो मूर्धा रामवेदाक्षरो मनुः ॥ तत्तद्दिशादेवनामसंयोगादन्यमन्त्र काः । नैतत्सुरालये कुर्यात् यतस्तैः पूर्वसङ्ग्रहात् ॥ तन्मध्ये गणपं क्षेत्रपालं वास्त्वीशमर्चयेत् । पूर्ववत् कूर्मचक्रं तु पूजयेत् तदनन्तरम् ॥ नवकोष्ठेषु पूर्वादीशान्तकोष्ठेषु वै क्रमात् । विलिखेत् काद्यष्टवर्गान् मध्ये कोष्ठे तु पूर्वतः ॥ द्वन्द्वं स्वराणां संलिख्य कूर्म भक्त्या समर्चयेत् । प्रागादिनवकोष्ठेषु क्षेत्रपालान्नवार्चयेत् ॥ अमृतं वृषभं शैलराजं वासुकिमेव च ।
अर्थकृच्छक्तिपद्मादियोनीन् शङ्ख महादिकम् ॥ 1 पूर्ववत्-वर. * मूर्धा-श्री. .. कान्-श्री.
34