________________
२६४
परशुरामकल्पसूत्रम्
प्रत्यहं वा समाप्तौ वा लक्षान्ते वा महेश्वरि । साधितानौ नित्यवत्तु हुत्वा होमेन होमयेत् ॥ चतुस्तारं मुखे क्षित्वा मूर्धान्तेन महेश्वरि । पायसं बिल्वपत्रं वा द्राक्षां पुण्यफलानि वा || करवीरं किंशुकं वा कमलं वा कुसुम्भकम् । मधूकं च जपां वाऽपि चान्यद्वा शुभगन्धयुक् ॥ एतेषां कुसुमं तद्वत् गव्यं क्षीरं घृतं तथा । पुष्पाणि तु समग्राणि कौसुम्भं दशसङ्ख्यकम् ॥ अम्लानं सुप्रसन्नं च होमकर्मणि योजयेत् । कर्षद्वयन्यूनफलं समग्रं 'होमयेत् तदा ॥ ततोऽधिकफलस्येह खण्डं स्यात् कर्षतोऽधिकम् । वृतश्रीखण्ड गरूणां माषयमितं भवेत् ॥ षष्टितण्डुलजं तद्वत् पायसं संप्रकीर्तितम् । क्षीरं कर्षमितं ज्ञेयमेवमन्यन्महेश्वरि || शूद्राणां च तथा स्त्रीणां होमो नैव भवेच्छिवे । · उत्कटेच्छाभक्तियुक्तशूद्रस्य स्यान्नमोन्ततः || अथवा ब्राह्मणद्वारा होमः कर्तव्य एव तु । सर्वत्रायं विधिः प्रोक्तः पूजाऽऽदिषु महेश्वरि ॥ होमाभावे द्विगुणतः तत्संख्याया जपः स्मृतः । अशक्त्या यस्य चाङ्गस्य लोपस्तद्विगुणो जपः ॥ ब्राह्मणस्य द्विगुणतः क्षत्रियस्य त्रिधा स्मृतः । चतुर्धा तु विशः पञ्चगुणः शूद्रस्य वै जपः ॥ अशक्तवृद्धस्त्रीणां तु सिद्धिर्जपद्विजार्चनात् । अङ्गद्वयेनैव तेषां पुरश्चरणकं भवेत् ॥
दुग्धेन गन्धतोयेन तर्पयेद्वाऽपि मूलतः । 'जले देवीं समावाह्य संपूज्यैव तु पूर्ववत् ॥
2 योज— श्री.
1 बिल्व - ब२.
3 जपेद्देवीं – श्री.