SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ अष्टमः खण्डः-परा-क्रमः ततश्च पूजितां देवीमात्मनि योजयित्वा स्वैरं विहरन्नाज्ञासिद्धः सुखी विहरेत् इति शिवम् ॥ ३८ ॥ इति . . . कल्पसूत्रे वाराहीक्रमो नाम सप्तमः खण्डः ततः जपानन्तरं पूजि तां चक्रे पूजितां आत्म नि हृदयकमले यो ज यि त्वा स्थापयित्वा स्वैरं स्वेच्छया विह रन् गच्छन् आज्ञा याः सिद्धिः फलवत्ता यस्यैतादृशः अप्रतिहताज्ञ इत्यर्थः । सुखी अपरिच्छिन्नसुखः । शि व मि ति व्याख्यातं प्राक् ॥ ३८ ॥ इति . . . कल्पसूत्रवृत्तौ वाराहीक्रमो नाम सप्तमः खण्डः . . अष्टमः खण्डः-परा-क्रमः सृष्टिस्थितिलयकृद्भिः नयनाम्भोजैः शशीनदहनाख्यैः । . मौक्तिकताटङ्काभ्यां मण्डितमुखमण्डलां परां नौमि ॥ पराया उपास्यत्वम् अथ परा-क्रमं वक्तुमुपक्रमते इति विधिवत्कृतवार्ताळीवरिवस्यः सिंहासनविद्याहृदयमनुत्तरं पराबीजरूपं धाम तत्क्रमपूर्व विमृशेत् ॥ १॥ कृ त वार्ता ळी व रिवस्य इत्यनेन वार्ताळीक्रमसमाप्त्युत्तरकालोऽङ्गत्वेन सूचितः । सिंहासनं सिंहासनम्वामिपरम् , तद्रुपा या विद्या सा त्रिपुरसुन्दरी ललिता, तस्याः हृ द यं हृदयरूपम् । क्वचित् सिंहासनीविद्या इति पाठः । तत्पक्षे सुगमम् । न विद्यते उत्तरं श्रेष्ठं यस्मात् तत् अनु तरं पराबीजं सौः त द्र पं, देवतामन्त्रयोः अभेदात् तद्रूपत्वं युक्तम् । धाम तेजः । तत्क्रमः पूर्वं यस्येति क्रियाविशेषणम् । विमृशे त् उपासनां कुर्यात् ॥ १ ॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy