________________
परशुरामकल्पसूत्रम् .
तत्रैव द्वाविंशेऽध्याये
तस्मान्मार्गान्तराणां तु प्रामाण्यं वेदवित्तमाः । मुक्तेरन्यत्र नात्रैव क्रमेणैवात्र मानता ॥ अतो वेदान्तमार्गस्थो महादेवोऽचिरेण तु । मुक्तिं ददाति नान्यत्र स्थितः सोऽपि क्रमेण तु ॥ ददाति परमां मुक्तिं इत्येषा शाश्वती श्रुतिः ॥ इति ।।
तत्रैव---
अतो वेदस्थितो मर्यो नान्यमार्ग समाश्रयेत् ।
अतोऽधिकारिभेदेन मार्गा मानं न संशयः ॥ तत्रैवैकस्मिन् परिवृत्ते तत्रत्यश्लोकाः--
ईश्वरस्य स्वरूपे च बन्धहेतौ तथैव च । जगतः कारणे मुक्तौ ज्ञानादौ च तथैव च ॥ मार्गाणां ये विरुद्धांशा वेदान्तेन विचक्षणाः । तेऽपि मन्दमतीनां च महामोहावृतात्मनाम् ॥ वाञ्छामात्रानुगुण्येन प्रवृत्ता न यथाऽर्थतः । दर्शयित्वा तृणं मत्यो धावन्ती गां यथाऽग्रहीत् ॥ दर्शयित्वा तथा क्षुद्रमिष्टं पूर्व महेश्वरः । पश्चात् पाकानुगुण्येन ददाति ज्ञानमुत्तमम् ॥ तस्मादुक्तेन मार्गेण शिवेन कथिता अमी ।
मार्गा मानं न चामानं मृषावादी कथं शिवः ॥ इति । तथा ब्रह्माण्डपुराणे
स्वमातृजारवद् गोप्या विद्यैषेत्यागमा जगुः ॥ इत्यागमानां प्रमाणत्वेनोपन्यासः । तथा ब्रह्मोत्तरखण्डे प्रदोषमाहात्म्ये प्रदोषपूजा तान्त्रिकसरण्या ब्राह्मणराजपुत्रयोरुपदिष्टा । तेन च फलप्राप्तिरिति इतिहासः सुस्पष्टं प्रतीयते । श्रीमद्भागवते गजेन्द्रस्तुतौ “ सर्वागमाम्नायमहार्णवाय' इति । आगमाः पाश्चरात्रादितन्त्राणि इति श्रीधरस्वामिव्याख्या । तथा ब्रह्मस्तुतौ