________________
प्रथमः खण्डः--दीक्षाविधिः रूपं तथैतत्पुरुषर्षभेज्यं श्रेयोऽर्थिभिर्वैदिकतान्त्रिकेण ॥ इति ॥ तथा एकादशस्कन्धे करभोजनोपदेशे द्वारपूजाविधाने कलिपूजायां च वचनानि यथा
यजन्ते वेदतन्त्राभ्यां परं जिज्ञासवो नृप ।
नानातन्त्रविधानेन कलावपि तथा शृणु ॥ इति ॥ नानातन्त्रविधानेनेति कलौ तन्त्रमार्गप्राधान्यं दर्शयतीति श्रीधरस्वामिव्याख्यानम् ।। एवं एकादशस्कन्धे उद्धवोपदेशेऽपि--
__ वैदिकैम्तान्त्रिकाभिश्च इति मे द्विविधो मखः ॥ इति वैदिकतान्त्रिकभेदेन द्विप्रकारपूजा श्रीभगवतोपदिष्टा सर्वैरुपलभ्यते ।। श्रीमहाभारते अर्जुनस्तुतौ
आम्नायागमवेद्याय शुद्धबुद्धाय ते नमः ॥ इति ॥ एवमादीनि तन्त्रप्रामाण्यप्रतिपादकवचनानि सहस्रश उपलभ्यन्ते । ग्रन्थविस्तरभयान्नेह प्रपञ्चयन्ते । एवं योगमार्गप्रामाण्यव्यवस्थापकानि वचनानि श्रीमन्महाभारते भगवद्गीतासु मोक्षधर्मादौ च असकृच्छ्रयन्ते । तथा भागवते काशीखण्डादिनिखिलपुराणेषु च पदेपदे उपलभ्यन्ते । एवं सति भट्टपादाः कथं सांख्ययोगतन्त्राणामप्रामाण्यं ब्रूयुः । न वा पुराणानामप्रामाण्यमिति शक्यते वक्तुम् ,
___पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ इति विद्यासु परिगणनात् , “ यदथर्वाङ्गिरसो ब्राह्मणानीतिहासान् पुराणानि" इति वेदेऽपि पुराणस्य प्रमाणमध्यपरिगणनात् । एवं उक्तवचनकलापैः एवंविधैरन्यैश्च तन्त्राणां सिद्धे प्रामाण्य अप्रामाण्यं ब्रह्मणाऽपि व्यवस्थापयितुं न शक्यम् ॥
सर्वतन्त्राणां वेदबाह्यत्वशंकानिरासः ननु भवत्वधिकारिविशेष वेदभ्रष्टे पुरुष स्त्रीशूद्राणां संकरेषु च तन्त्राणां प्रामाण्यं, न वैदिके । न च वैदिकातिरिक्ते तन्त्रस्य अधिकारसंकोचकप्रमाणाभाव इति वक्तुं शक्यम् । पूर्व सूतसंहितावचनस्य “तान्त्रिकस्यैव नान्यस्य वैदिकी वैदिकस्य हि" इति लिखितस्य सत्त्वात् । एवं सूतसंहितायामेव मुक्तिखण्डे