________________
प्रथमः खण्डः-दीक्षाविधिः तथाऽपि स्वमदृष्टं हि वस्तु स्वर्गनिवासिनः । सूचकं हि भवत्येव जाग्रत्सत्यार्थसिद्धये ॥ तथैव मार्गात् संभ्रान्ता अपि वेदोदितस्य तु । अर्थस्य प्राप्तिसिद्धयर्था भवन्त्येव न संशयः ॥
तस्माद्वेदेतरा मार्गा नैव त्याज्या निरूपणे ॥ इति ।। सूतसंहितायां शिवमाहात्म्यखण्डे पञ्चमाध्याय----
पूजा शक्तेः परायास्तु द्विविधा परिकीर्तिता। बाह्याभ्यन्तरभेदेन बाह्या च द्विविधा मता ॥ वैदिकी तान्त्रिकी चेति द्विजेन्द्रास्तान्त्रिकी तु सा । तान्त्रिकस्यैव नान्यस्य वैदिकी वैदिकस्य हि ।।
इत्थं समस्तदेवानां पूजा विप्रा व्यवस्थिता ॥ इति ॥ एवं सूतसंहितायां मुक्तिखण्डे
पाञ्चरात्रादितन्त्राणां वेदमूलत्वमास्तिके । न हि स्वतन्त्रास्ते तेन भ्रान्तिमूला निरूपणे ॥ तथाऽपि योऽशो मार्गाणां वेदेन न विरुध्यते । सोंऽशः प्रमाणमित्युक्तं केषांचिदधिकारिणाम् ॥ इति, तान्त्रिकाणामहं देवि लभ्योऽस्मि व्यवधानतः ।
लभ्यो वेदैकनिष्ठानामहमव्यवधानतः ॥ इति च ॥ एवं तत्रैव यज्ञवैभवखण्डे विशेऽध्याये--
शैवागमोदितो धर्मो द्विधा पूर्वमुदीरितः । अधःस्रोतोद्भवस्त्वेक ऊर्ध्वस्रोतोद्भवोऽपरः ॥ अधःस्रोतोद्भवाद्धर्मादूर्ध्वस्रोतोद्भवो वरः। कामिकादिप्रभेदेन स भिन्नोऽनेकधा द्विजाः ।। अधःस्रोतोद्भवो धर्मो बहुधा भेदितस्तथा । ऊर्ध्वस्रोतोद्भवाद्धर्मात् स्मार्ता धर्मा महत्तराः ॥ इति,