________________
परशुरामकल्पसूत्रम् वेदमार्गमिमं मुक्त्वा मार्गमन्यं समाश्रितः । हस्तस्थं पायसं त्यक्त्वा लिहेत् कूर्परमात्मनः ॥ विना वेदेन जन्तूनां मुक्तिर्मार्गान्तरेण चेत् । तमस्यपि विनाऽऽलोकं ते पश्यन्ति घटादिकम् ।। तस्माद्वेदोदितो ह्यर्थः सत्यं सत्यं मयोदितम् । अन्येन वेदितो ह्यर्थः न सत्यः परमार्थतः ॥ इति ॥ तत्र तत्रैव तर्काश्च प्रवदन्ति यथाबलम् ।
सर्वे वादाः श्रुतिस्मृत्योर्विरुद्धा इति मे मतिः ॥ इति ॥ यज्ञवैभवखण्डे एकचत्वारिंशेऽध्याय----
बहुनाऽत्र किमुक्तेन श्रुतिस्मृत्युदितं विना ।
यत्किंचिदपि कुर्वाणः पातकी स्यान्न संशयः ।। इति वैदिकान्यमार्गनिन्दा श्रूयते । अग्निपुराणेऽपि वेदराशिना साकं नारकिणां संवादे---
तन्त्रदीक्षामनुप्राप्ताः लोभोपहतचेतसा ।
त्यक्त्वा वैदिकमध्वानं तेन दह्यामहे वयम् ॥ इति । पद्मपुराणे पुष्करमाहात्म्ये---
ये च पापण्डिनो लोके तान्त्रिका नास्तिकाश्च ये ।
तैर्दुप्प्रापमिदं तीर्थम् . . . . . . . . . . . . ॥ इति तान्त्रिकपुरुषनिन्दया तन्त्रस्याश्रद्धेयत्वं स्पष्टम् । एवमन्येप्वपि बहुपुराणेषु तन्त्रनिन्दायाः बहुळमुपलंभात् । मपञ्चकादरविधायकशास्त्रस्य लोभैकमूलत्वं सुस्पष्टम् । वैसर्जनीयवासोग्रहणशास्त्रस्य लोभैकमूलत्वं साधितम् । किमु मपञ्चकसेवकस्य लोभमूलत्वे प्रतिरोधः । तस्मात् इदं शास्त्रं आस्तिकैः न व्याख्येयं इति चेत्मैवम् । किं भट्टपादानां पुराणानि पाझादीनि प्रमाणत्वेन अभिमतानि न वा ? यदि प्रमाणत्वेन अभिमतानि तर्हि तेषु तन्त्रप्रामाण्यं बहुशः अधिकारिविशेषविषये श्रूयते । तथा हि सूतसंहितायां ब्रह्मगीताद्वितीयाध्याये