________________
प्रथमः खण्डः-दीक्षाविधिः प्रयोगकर्ताऽहमिति फलितोऽर्थः । व्या रू या स्या मः इति बहुवचनं उपासनाप्रवर्तकाचार्यानन्यानपि संग्रहीतुम् । यथा लोके गुरुतरकार्यनिर्माणे “वयं कुर्मः' इत्यन्येऽपि संगृह्यन्ते तथा । एतेन दीक्षाव्याख्यानं अतिकठिनमिति सूचितम् । यद्वा“ अस्मदो द्वयोश्च" एकत्वे द्वित्वे च विवक्षिते अस्मदो बहुवचनं स्यादिति तदर्थः । तथा च अस्मच्छब्दस्य कर्तृवाचकस्य बहुवचनान्तत्वात् तत्समानवचनत्वोपपत्तये व्याख्यास्यामः इति बहुवचनम् ॥
तन्त्राप्रामाण्यशंकानिरासः ननु कल्पसूत्रव्याख्यानं वैदिकानामयुक्तं, तस्य तन्त्रेषु परिगणितत्वेन, तन्त्राणां केवललोभैकमूलत्वेनाप्रामाण्यात् । तदुक्तं वार्तिके भट्टपादैः--
" लोभादिकारणं चात्र बढेवान्यत् प्रतीयते । यस्मिन् सन्निहिते दृष्टे नास्ति मूलान्तरानुमा । शाक्यादयश्च सर्वत्र कुर्वाणा धर्मदेशनाम् । हेतुजालविनिर्मुक्तां न कदाचन कुर्वते ॥ न च तैर्वेदमूलत्वमुच्यते गौतमादिवत् । हेतवश्चाभिधीयन्ते ये धर्माद् दूरतः स्थिताः ॥ एत एव च ते येषां वाङ्मात्रेणापि नार्चनम् ।
पाषण्डिनोऽपि कर्मस्था हैतुकाश्चैत एव हि ॥ इति ।” “एवं यान्यन्यानि त्रयीविद्भिः न परिगृहीतानि किंचित्तन्मिश्रकञ्चकछायापतितानि लोकोपसंग्रहलाभपूजाख्यातिप्रयोजनपराणि त्रयीविपरीतासंबद्धदृष्टलोभादिप्रत्यक्षानुमानोपमानार्थापत्तियुक्तिमूलोपनिबद्धानि सांख्ययोगपाञ्चरात्रशाक्यग्रन्थपरिगृहीतधर्माधर्मनिबन्धनानि विषचिकित्सावशीकरणोच्चाटनोन्मादनादिसमर्थनानि कादाचित्कसिद्धिदर्शनबलेन अहिंसासत्यवचनदमदानदयाऽऽदि श्रुतिस्मृतिसंवादिस्तोकार्थगन्धवासितजीविकाप्रायार्थान्तरोपदेशीनि, यानि म्लेच्छाचारमिश्रकभोजनाचरणनिबन्धनानि, तेषामेवैतच्छृतिविरोधहेतुदर्शनाभ्यामनपेक्षणीयत्वं प्रतिपाद्यते' इति च ग्रन्थेन । एवं श्रीसूतसंहितायां ब्रह्मगीताद्वितीयाध्यायेऽपि