________________
परशुरामकल्पसूत्रम् सुब्रह्मण्यं च पितरं गुरुवाम्बां च मातरम् । प्रणमामि फलावात्यै तावेव शरणं मम ॥ विचार्य नानातन्त्रादीन् मीमांसान्यायविस्तरम् । नानादेशसमानीतपुस्तकैः परिशोध्य च ॥ जामदग्येन रचितं कल्पसूत्रं यथामति । विस्तारयति गूढार्थ श्रीविद्योपास्तिसिद्धये ॥ रामेश्वर: श्रीललिताप्रेरितः काश्यपोद्भवः ।।
दीक्षाऽधिकारः इह खलु श्रीभगवान् श्रीपरशुरामः आधुनिकेषु मन्दमतिषु कृपाळु: श्रीशिवनिर्मितान्यसंख्यानि तन्त्राणि पर्यालोड्य सर्वाण्युपसंहृत्य तुरीयपुरुषार्थसाधनं लघुमध्वानं दर्शयन् प्रतिजानीते---
अथातो दीक्षां व्याख्यास्यामः ॥१॥ अत्र अथ शब्द: मङ्गळद्योतकः,
ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तम्मान्माङ्गळिकावुभौ ।।
इति स्मरणात् । अतः शब्दश्च आनन्तर्यद्योतकः । आनन्तर्यस्यावध्यपेक्षायां समीपवर्तित्वात् मङ्गळाचरणं नानातन्त्रपरिशोधनं वा अवधित्वेन अन्वेति । यद्वा'अथा तः' इति मिलित्वा आरम्भद्योतकः, “अथातो दर्शपूर्णमासौ व्याख्यास्यामः" इत्यापस्तम्बसूत्रभाष्ये “अथातश्शब्दोऽयं प्रकरणारम्भे प्रायः प्रयुज्यते वृद्धैः । क्वचिदानन्तर्येऽपि, यथा---' इमे भृगवो व्याख्याताः अथातोङ्गिरसाम् ' इत्यादौ। तथा न पुनरिहानन्तर्यमर्थः, पूर्वप्रवृत्तस्य कस्य चिदनन्तरस्यानुपलंभात् । इति लेखात् । दीक्षा पदार्थ सूत्रकारोऽने विवेचयिष्यति । व्या रू या पदार्थश्च निगूढाभिप्रायकशब्दस्य विविच्य कथनम् । प्रकृते गूढार्थानां तन्त्राणां उपसंहारेण विविच्य कथनं कल्पसूत्रे इति लक्षणसमन्वयः । दीक्षाविषयज्ञानानुकूलशब्द