________________
श्रीमहात्रिपुरसुन्दर्यै नमः परशुरामकल्पसूत्रम्
रामेश्वरकृतवृत्तिसहितम्
प्रथमः खण्डः-दीक्षाविधिः
वृत्तिभूमिका श्रीवल्लभापयोधरसंलिप्तालेपरञ्जितोरस्कम् । वन्दे गजेन्द्रवदनं बालसहस्रांशुकोटिसच्छायम् ॥ या परशिवे स्फुरत्ता पूर्णाऽहन्तापदेन संश्लिष्टा । द्वैतं भावं प्राप्ता पश्चादम्बां परामिमां कलये ॥ या पञ्चप्रेतसंस्था परशिवनिलया शक्तयः कामबुद्धि
कर्माद्या यन्मयूखाः समुदयपरिरक्षाऽन्तको बभूवुः । या पश्यन्त्यादिरूपा सकलजनवचोजालमाविष्करोति ___ सा मे वाग्देवतेयं विलसतु वदने चित्तमालिन्यहन्त्री ॥ श्रीमद्यशोवदम्बामासुरवामाङ्कमज्ञताऽद्रिपविम् । मम विधिसुषिरसरोरुहकल्पितनिलयं नमामि नाथेन्द्रम् ॥ यो भृगुवंशे भूत्वा क्षत्रं जघ्ने त्रिसप्तकृत्वस्तम् । षष्ठं श्रीमद्विष्णोरवतारं नौमि वीरेन्द्रम् ॥