________________
सप्तमः खण्डः - वाराहीक्रमः
२६१
षडावरणपूजाऽनन्तरं कर्तव्यां क्रियामाह – पुन रिति । सर्वैरुपचारैः पूर्वोक्तषोडशोपचारैः रैः ॥ ३३ ॥
बलिदानप्रकार:
अथ बलिदानप्रकारं वक्तुं प्रक्रमते
पुरतो वामभागे हस्तमात्रं जलेनोपलिप्य रुधिरान्नहरिद्राऽन्नमहिषपलसक्तुशर्कराहेतुफलत्रयमाक्षिकमुद्गत्रयमाषचूर्णदधिक्षीरघृतैः शुद्धोदनं संमर्थ चरणायुधाण्डप्रमाणान् दशपिण्डान् विधाय तत्र निधाय कपित्थफलमानमेकं पिण्डं च तत्समीपे सादिमोपादिममध्यमं चषकं च निक्षिप्य दशपिण्डान् हेतुकादिभ्यो मध्यमपिण्डं चषकं च चण्डोच्चण्डाय तत्तन्मन्त्रैः दत्वा बृन्दमाराध्य ॥ ३४ ॥
((
""
देव्या इति शेषः, 'देवीं त्रिधा' इति पूर्वसूत्रे सन्निहितत्वात् । अथ द्रव्यमाह- - रुधिरान्नेति । रुधिरेण रक्तेन युक्तं अन्नं हरिद्रायुक्तं अन्नं पलं मांसं सक्तवः भर्जितयवचूर्ण हेतुः प्रथमं फलत्रयं त्रिफला माक्षिकं पुष्परसः मुद्गत्रयं त्रिजातिमुद्गाः । शेषं स्पष्टम् । एतैः शुद्धोदनं संमद्ये मिश्रितं कृत्वा । चरणायुधः कुक्कुट, 'कुक्कुटश्चरणायुधः इत्यमरः । तत्र पूर्वलिप्तदेशे । तत्समीपे दशपिण्डसमीपे । दशपिण्डस्थापनं च प्रागादिदशदिक्षु, पूजायामासां दिशां कॢप्तत्वात् । तत्तन्मन्त्रैः पूजायां कॢप्तमन्त्रैः । तत्रापि नमोऽन्तैरेव, न श्रीपादुकेत्यादिमन्त्रशेषः । बृन्दमाराध्ये ति हेतुकादिचण्डोच्चण्डान्तबृन्दमित्यर्थः । अत्र पाठक्रमं बाधित्वा अर्थक्रमेण आदौ आराधनं, पश्चात् बलिदानं ज्ञेयम् । तत्रापि बाधकाभावात् प्रधानसन्निकर्षलाभाय सप्तदशप्राजापत्यपशुवत् पदार्थानुसमयेनाभ्यर्चनं पञ्चोपचारैः कार्यम् ॥ ३४ ॥
1